________________
श्रीप्रवचन
परीक्षा ९विश्रामे ॥२५॥
विदेहनिश्रामावे
चर्चा
जानाजHOGHOONSHOUGHOUGHORE
कटुकमते उत्तरापथवर्तिनां साधूनां सिद्धान्ते गुर्जरत्रावनिवार्त्तिन एव युगप्रधाना उक्ता भविष्यन्ति तदा कटुकस्य का गतिः, कथं वा तनिर्णय इति सर्वकालसंदिग्ध एव स्तोत्रमात्रमङ्गीकृत्योद्धान्तचेता उभयभ्रष्ट इतिगाथार्थः ॥ ३३ ॥ अथोत्तरापथसाधुनिश्रामा लम्ब्य धर्मकृत्यं कुर्म इति कदाशयं षयितुमाहउत्तरपहमुणिनिस्सं अवलंबिअ धम्मकिचमिह कुणिमो। तंपिअ मिअतिण्हाभं विदेहयाणंपि किं नेव॥३४॥
उत्तरापथसाधुनिश्रामवलंब्य च यद्धर्मकृत्यं कुर्मस्तन्मृगतृष्णाभं-मरुमरीचिकाकल्पं, यतस्तदृष्ट्वा जलाशया धावमानो न जल| लाभभाग्भवति तथाऽप्युत्तरापथसाध्वाशया प्रवर्तमानो न धर्मभाग भवति, यतो विदेहजानां साधूनां किमेवं न निश्रां करोति', उभ| यत्राप्यदर्शने विशेषाभावेऽप्युत्तरापथसाधूनां निश्रामङ्गीकृत्य धर्म करोति तर्हि विदेहजानां साधूनामेव कुर्विति तात्पर्य, नन्वेवमेव भवत्विति चेन्मैवं, विदेहजानां साधूनां निश्रया धर्मकृत्यस्याप्यसंभवाद, अत एव वर्षाकालस्थितानामपि साधूनां यद्याचार्यः शरीरात्पृथग्भूतो भवेचर्हि गच्छान्तराचार्याश्रयणार्थं ग्रामानुग्रामविहारकरणानुज्ञा, यदागम:-"पंचहिं ठाणेहिं कप्पति निग्गंथाण वा २ |गामाणुगाम दुइजित्तए, तं०-नाणट्टयाए दसणठ्याए चरित्तठ्याए आयरियउवज्झाए वा से तस्स विसुंभेजा आयरिउवझायाणं बहिआ वेयावच्चकरणयाए"त्ति (५१३) श्रीस्थानाङ्गे, एतट्टीकादेशो यथा-'आयरिअउवज्झाए'त्ति समाहारद्वन्द्वस्तद् आचार्योपाध्यायं वा 'से' तस्य भिक्षोः 'विसुंभेजाहि' विष्वक्-शरीरात्पृथग् भवेत्-जायेत, म्रियेतेत्यर्थः,ततस्तत्र गच्छेऽन्यस्याचार्यादेरभावाद्गणान्तराश्रयणार्थमिति श्रीस्थानांगटीकायां, अत्र यदि महाविदेहवर्तिनामाचार्यादीनां निश्रया चारित्राराधनमभविष्यत्किमिति | | साधूनामपि चतुर्मासकस्थितानामपि गणान्तराचार्याश्रयणार्थ विहारकरणानुज्ञामदास्यत्, तमादत्रत्यसाधुनिश्रयैव धर्मकृत्यं श्रेयो,
THOUGHONGKONGKORONGHOUGHONE
॥२५॥
In Education Internation
For Personal and Private Use Only
www.jainelibrary.org