SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन९ विश्रामे ॥२४५॥ Jain Education THONGKONGKONGHONGIONCIOUS DIG मिच्छं पडिवअमाणा, करिति आसायण ते गुरूणं ॥ १||" इतिश्रीदशवै०, अत्र बहुश्रुतानां श्रीसुधर्मस्वाम्यादीनां हीलने यथा मिथ्यात्वं तथा कालानुभावादल्पश्रुतादिगुणवतामप्याचार्यादीनां हीलनेऽपीत्यविशेषेण भणितं, कालादिदोषस्योपेक्षणीयत्वाद्, यत एवं तेन कारणेन 'कटुकः' कटुकनामा गृहस्थस्तत्पृष्ठलग्नोऽन्योऽपि बटुक इव - बटुकसदृशवेषधारित्वाद्वदुको मोच्यः, किंवत् १पापमूर्त्तिवद्, अयं पापमूर्त्तिरित्यवगम्य मोच्य इतिगाथार्थः ||२७|| अथ प्रागुक्तेन किं संपन्नमित्याह - एणमुत्तर मुणिणो संतित्तिवयणमवि खित्तं । जह अडवीथलवडिओ कडक्करो बंभणाइठ्ठो ||२८|| एतेनोत्तरापथे मुनयः सन्तीति वचनमपि क्षिप्तं निरस्तं, दृष्टान्तमाह-यथा अटवीस्थलपतितः कटत्कारो ब्राह्मणादिष्टो निरस्तः, अयं भावः - यथा कश्चिद्रोरत्राह्मणः क्वापि ग्रामे कणवृत्तिं कर्तुं गतः, तत्र चैकः कुलपतिः प्रकृत्या कृपणः, तस्य च वृद्धत्वेन हेतुना धर्मकरणेच्छा समुत्पन्ना, तस्य गृहे मन्दा वृद्धा च गौरस्ति, सा च स्वस्तिभाणन पुरस्सरं तस्मै ब्राह्मणाय दत्ता, द्रम्मचतुष्टयं दक्षिणापि, परं स ब्राह्मणोऽनभ्यासात् मूर्खत्वाच्च स्वग्रामं प्रति नयनप्रकारमनवगच्छन् कुलपतिना कटत्कार नामानं गोहकनशब्दं शिक्षितः, स च कटत्कारशब्देन गां हक्कयन् अटवीस्थले प्राप्तः, तत्र चैकं पीलुवृक्षं फलितं दृष्ट्वा पीलुफलानि भक्षितुं लग्नः, तावता तादृशी गौः श्रान्ता सती भुव्युपविष्टा, स च ब्राह्मणः तृप्तीभूय गोसमीपमागतः परं गोरुत्थापनशब्दः कटत्कारो विस्मृतः अस्यां भुवि नष्ट इति धिया भुवं शोधयितुं लग्नो यावन्मध्याह्नेऽध्वनि गच्छन्नेकः पथिकस्तत्रागतः तेन पृष्टं भो विप्र ! किमटवीस्थलं शोधयसि ?, तेनोक्तंमहर्द्धिकेन कुलपतिनाऽर्पितो मदीयः कटत्कारो नष्टः तं शोधयामि तेन पथिकेन ज्ञातं -कटत्कारनामकं किंचित्सौवर्ण रोप्यकं वा नाणकं भविष्यति, तेनोक्तं यद्यहं लाभयामि तर्हि महामर्द्ध दास्यसि ?, ब्राह्मणेनोक्तं भवतु, सोऽपि तद्वदटवीस्थल शोधयितुं For Personal and Private Use Only HADAGHONGHONGINGS GOING उत्तरापथ साधुनिरासः ॥२४५॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy