________________
श्रीप्रवचन९ विश्रामे ॥२४५॥
Jain Education
THONGKONGKONGHONGIONCIOUS DIG
मिच्छं पडिवअमाणा, करिति आसायण ते गुरूणं ॥ १||" इतिश्रीदशवै०, अत्र बहुश्रुतानां श्रीसुधर्मस्वाम्यादीनां हीलने यथा मिथ्यात्वं तथा कालानुभावादल्पश्रुतादिगुणवतामप्याचार्यादीनां हीलनेऽपीत्यविशेषेण भणितं, कालादिदोषस्योपेक्षणीयत्वाद्, यत एवं तेन कारणेन 'कटुकः' कटुकनामा गृहस्थस्तत्पृष्ठलग्नोऽन्योऽपि बटुक इव - बटुकसदृशवेषधारित्वाद्वदुको मोच्यः, किंवत् १पापमूर्त्तिवद्, अयं पापमूर्त्तिरित्यवगम्य मोच्य इतिगाथार्थः ||२७|| अथ प्रागुक्तेन किं संपन्नमित्याह -
एणमुत्तर मुणिणो संतित्तिवयणमवि खित्तं । जह अडवीथलवडिओ कडक्करो बंभणाइठ्ठो ||२८|| एतेनोत्तरापथे मुनयः सन्तीति वचनमपि क्षिप्तं निरस्तं, दृष्टान्तमाह-यथा अटवीस्थलपतितः कटत्कारो ब्राह्मणादिष्टो निरस्तः, अयं भावः - यथा कश्चिद्रोरत्राह्मणः क्वापि ग्रामे कणवृत्तिं कर्तुं गतः, तत्र चैकः कुलपतिः प्रकृत्या कृपणः, तस्य च वृद्धत्वेन हेतुना धर्मकरणेच्छा समुत्पन्ना, तस्य गृहे मन्दा वृद्धा च गौरस्ति, सा च स्वस्तिभाणन पुरस्सरं तस्मै ब्राह्मणाय दत्ता, द्रम्मचतुष्टयं दक्षिणापि, परं स ब्राह्मणोऽनभ्यासात् मूर्खत्वाच्च स्वग्रामं प्रति नयनप्रकारमनवगच्छन् कुलपतिना कटत्कार नामानं गोहकनशब्दं शिक्षितः, स च कटत्कारशब्देन गां हक्कयन् अटवीस्थले प्राप्तः, तत्र चैकं पीलुवृक्षं फलितं दृष्ट्वा पीलुफलानि भक्षितुं लग्नः, तावता तादृशी गौः श्रान्ता सती भुव्युपविष्टा, स च ब्राह्मणः तृप्तीभूय गोसमीपमागतः परं गोरुत्थापनशब्दः कटत्कारो विस्मृतः अस्यां भुवि नष्ट इति धिया भुवं शोधयितुं लग्नो यावन्मध्याह्नेऽध्वनि गच्छन्नेकः पथिकस्तत्रागतः तेन पृष्टं भो विप्र ! किमटवीस्थलं शोधयसि ?, तेनोक्तंमहर्द्धिकेन कुलपतिनाऽर्पितो मदीयः कटत्कारो नष्टः तं शोधयामि तेन पथिकेन ज्ञातं -कटत्कारनामकं किंचित्सौवर्ण रोप्यकं वा नाणकं भविष्यति, तेनोक्तं यद्यहं लाभयामि तर्हि महामर्द्ध दास्यसि ?, ब्राह्मणेनोक्तं भवतु, सोऽपि तद्वदटवीस्थल शोधयितुं
For Personal and Private Use Only
HADAGHONGHONGINGS GOING
उत्तरापथ
साधुनिरासः
॥२४५॥
www.jainelibrary.org.