SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२४४ ॥ DRONGHONGHO लणाणं तु उदयओ हुति । मूलच्छित्रं पुण होइ बारसहं कसायाणं ||१|| (३-१२२नि.) इति यच्चामीषां जडत्वं तन्मेधामधिकृत्यैव बोध्यं, न पुनः परकीयलक्ष्यामिप्रायमाश्रित्यापि यद्वा वक्रजडानां जडत्वं मायायामेवान्तर्भवति, यतस्ते जानन्तोऽपि परप्रत्यायनार्थं माययैवासदध्यात्मीयं जडत्वमाविष्कुर्वन्ति, तस्माज्जडत्वमुपचरितं, माया तु वास्तव्येवेति मायाहेतुका चारित्रस्खलनेति भाव इति केचिच्चातिचारबाहुल्याहुष्पमायां चारित्रमेव न मन्यते, तदप्यसमञ्जसमेव, “न विणा तित्थं नियंठेहिं' ति प्रवचनान्निर्ग्रन्थैर्विना तीर्थस्यैवासंभवाद्, व्यवहार भाष्ये त्वेवंविधवक्तॄणां महतः प्रायश्चित्तस्योक्तत्वाच्च, तथा "जो भणइ नत्थि धम्मो नय सामइअं न चैव य वयाई । सो समणसंघबज्झो कायन्वो समणसंघेण || १||" इत्याद्युक्तेश्च तस्मात्पूर्वसाध्वपेक्षया हीनतरक्रियापरिणामवच्त्वेऽपि नृपगोपविषवृषभपुष्करिण्याद्यागमोक्तदृष्टान्तेन दुष्षमासाधूनां साधुत्वमेवेत्यादि बहु वक्तव्यं ग्रन्धन्तरादवगन्तन्तव्यमितिगाथार्थः | ॥ २६ ॥ अथ प्रागुक्तानां सर्वेषामपि साधूनां साधारणखरूपमाह सव्वेवि मुत्तिपहिआ तिलोक्कमहिआ य हुंति मुणिपवरा । तेणं कडुओ बडुओ मोक्तव्वो पावमुत्तिव्व ||२७|| सर्वेऽपि ऋजुजडऋजुप्राज्ञवक्रजडलक्षणा 'मुक्तिपथिकाः' मोक्षपथगामिनस्त्रैलोक्यमहिताः - त्रिलोकजनपूजिताश्च भवन्ति, किंलक्षणाः ? - 'मुनिप्रवराः' मुनीनां मध्ये प्रधानाः सर्वेऽप्यविशेषेणैवाराध्यस्थानमित्यर्थः, यतस्ते कालानुभावात्तथा परिणता इति न दोषः, कालानुभावाद्यो दोषः सोऽकिञ्चित्कर एव, नहि तद्दोषेणाराध्यपदमपि न भवति, किंतु कालदोषेण यतनाऽनुज्ञा, यदागमः - " कालस्स य परिहाणी संजमजुग्गाई नत्थि खित्ताइं । जयणाइ वडिअव्वं नहु जयणा भंजए अंगं ।। १ ।। " (२९४) श्रीउपदेशमालायां, अत एव तदाशातनाऽपि तद्धीलने, यदागमः- “जे आवि मंदत्ति गुरुं वइत्ता, डहरे इमे अप्पसुअत्ति नच्चा । हीलंति Jain Educationa International For Personal and Private Use Only ONTHOUGHO HONGHONGHOSHS साधुसचासिद्धि: ॥२४४॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy