________________
श्रीप्रवचनपरीक्षा ९ विश्रामे
॥२४३॥
HOHONGK
एवं प्रागुक्तवच्चतुष्पश्च विकल्पविषयाणि महाव्रतानि भवन्तीति गम्यं चत्वारि च पञ्च च चतुष्पञ्च तेषां तद्रूपो वा विकल्पचतुष्पञ्च विकल्पस्तस्य विषयीभृतानि महाव्रतानि, अत्र च कारणं मुख्यवृत्त्या काल एव, प्रथमचरमजिनयोः काले पञ्च महाव्रतानि, शेषाणां तु काले चत्वारि, यद् - यस्मात्कालानुभावाञ्जीवा जाताः कीदृशाः १ - ऋषभजिनकाले ऋजुजडा: अजितादिजिनकाले ऋजुप्राज्ञाः श्रीवीरकाले च वक्रजडाः, चकारोऽध्याहार्यः, तत्र ऋजुजडानां चारित्रपालनं सुकरं परं विशोधिः दुःसाध्या, ऋजुप्राज्ञानां पालनं विशोधिश्वेत्युभे अपि सुकरे, वक्रजडानां तु पालनं विशोधिश्वेत्यु मे अपि दुःसाध्ये, यदागम:- “ पुरिमा उज्जुजड्डाओ, पंकजड्डाउ पच्छिमा । मज्झिमा उज्जुपणा उ. तेण धम्मे दुहाकए || १ || पुरिमाणं दुव्विसुज्झो उ चरमाणं दुरणुपालओ कप्पो । मज्झिमगाणं तु भवे सुविसुज्झे सुपालए ||२||" इतिश्रीउत्तराध्ययने (८५७-८*) ननु ऋजुप्राज्ञानां चारित्रं युक्तं, परं ऋजुजडानां कथमिति चेद्, उच्यते, सत्यामप्यनाभोगतः स्खलनायामृजुजडानां तीव्रसंक्लेशाभावाद्भावतः शुद्धत्वात्स्थिरभावेनैव चारित्रपरिणामस्तीर्थकृद्भिर्निर्दिष्टः, तथा सहकारिवशेन कादाचित्को वाऽस्थिरभावोऽपि न चारित्रपरिणामं हन्ति, न ह्यग्निसंपकदुष्णमपि वज्रं वज्रत्वमपि जहातीति, यदाहुः श्रीहरिभद्रसूरिपादाः - "एवंविहाण व इहं चरणं दिवं तिलोगनाहेहिं । जोगाण थिरो भावो जम्हा एएसि सुद्धो उ || १ || अथिरो अ होइ भावो (इय ते) सहकारिवसेण ण पुण ते हणइति (पंचा० ८३९) नन्वेवं युक्तश्चरणानपगम ऋजुजडानामार्जवलक्षणस्य गुणस्य सद्भावाद्, वक्रजडानां पुनर्दोषद्वयसद्भावात् कथमसाविति चेदित्यत्राप्युच्यते, यथा ऋजुजडानामनाभोगतः स्खलना तथा 'मायैव वक्रते 'ति वचनाद्वक्रजडानां प्रायः कालानुभावतोऽसकृन्मातृस्थानादेव, तच्च संज्वलन कषायाणामेवाति चारहेतुत्वात् तत्संगतमेवात्र ग्राह्यं, नेतरत्, तस्य चारित्राद्युपहन्तृत्वाद्, यदुक्तं - "सव्वेऽविअ अइआरा संज
Jain Educationa International
For Personal and Private Use Only
AGHOIGHOI THONGKONG GH
साधुसत्ता
सिद्धिः
।।३४।।
www.jainelibrary.org