________________
श्रीप्रवचनपरीक्षा ९विश्रामे ॥२४२॥
साधुसचासिदिः
PROIDIGIOUGHOUGHOUGHOUGHOUGH
वीरोऽप्यनन्तवलवानपि सुरगिरी पादाष्ठमोचनेन सुरेन्द्र संज्ञापयामास, नं पुनर्वाप्रयोगेण, वाक्प्रयोगहेतोर्जिह्वायास्तथा सामयाभावात् , क्षेत्रमप्यार्यानार्यादिलक्षणं, तदपि कार्यकरणे बलवदवलवद्वा स्यात अत एव "तिहिं ठाणेहिं(ततो ठाणाई) देवे पिहेजा, त०-माणुस्सभवे आयरिअखिने सुकुले पञ्चाआई"त्ति (१०८)श्रीस्थानाङ्गवचनात क्षेत्रमधिकृत्य बोध्यादिलामसंभवः,कालोऽपि | दुष्षमादिलक्षणोऽध्यक्षसिद्ध एव, दुषमाकालोत्पन्नानां तथाविधसंहननादिसामग्रीसहितानां प्रायो मनःप्रभृतीनां सामर्थ्य स्वल्पमेव | भवति, तत्र कालानुभाव एव बोध्यः,यतः-सत्तहिं ठाणेहिं ओगाढं दसमं जाणेजा,तं०-अकाले वरसइ १ काले न वरसइ २ असाहू पुजंति ३ साहू न पुजंति ४ गुरूहि जणो मिच्छं पडिवण्णो ५ मणदुहया ६ वओहया ७ (५५९) इतिश्रीस्थानाङ्गवचनं, अत्र | पञ्चमकालोत्पन्नानां कालानुभावादेव मनोदुःखता वचोदुःखता च भणिता, सा च संयतानामपि संहननादिवत् सर्वत्रापि समाना, | भावोऽपि द्रव्यादिसहकृतानां तारतम्यादिभेदेन पदस्थानकपतितो भवति, तेन महाव्रतानि सम्यगाराधयन्तोऽपि साधवः पृथक २ स्थानस्थितिसौख्यादीनां भोक्तारः परलोकेऽपि जायन्ते,तेन संप्रति साधूनां द्रव्यादिसामग्रीवशात्तथाविधवीर्यान्तरायकर्मक्षयोपशमात् न पूर्वसाधुवद् विकृष्टतपःप्रभृतिषु सामर्थ्य, 'तेऽपि' द्रव्यादयोऽपि 'पञ्चपरवशकाः' पञ्चशब्देन कालखभावनियतिपूर्वकृतपुरुषकार|लक्षणः पञ्चसमवायस्तस्य परवशका:-तदायत्ताः, अयं भावः-द्रव्यादीनामपि कालादिसमवायानुसारेणैव परिणतिः, तेन कारणेन 'जिनकल्पादिब्युच्छेदो जिनवरेन्द्रोक्तः' संप्रति काले जिनकल्पो न भवति, तद्योग्यसंहननश्रुताद्यभावाद्, अत एव कारणानुरूपं कार्यमिति भाव इति गाथार्थः ॥२५।। अथ विशेषतः कालबलमतिदिशबाह
एवं महब्वयाइं चउपंचविगप्पविसयभूआई। उज्जुजडा उज्जुपण्णा वंकजडा जं जिआ जाया ॥२६॥
HDGHOOMGHOSONG
॥२४सा
In Education Intematon
For Personal and Private Use Only
Imw.jainelibrary.org