________________
श्रीप्रवचनपरीक्षा ९ विश्रामे
॥२४१॥
Jain Educationa In
तस्य कटुकस्योपदेशो महापापः, कथं १, येन यथोक्तक्रियापरायणाः साधवो 'नित्य' तीर्थस्थितिं यावद्भवन्ति, किमाश्रित्य :श्रद्धानमधिकृत्य, श्रद्धान तु यथा श्रीसुधर्मादीनां तथा संप्रति गूर्जरत्रादौ विद्यमानानामपि, कृत्यं पुनः शक्तिसंकलितं, न हि तीर्थकृतोऽशक्यानुष्ठानमरूपका भवन्ति, अत एव धर्मदेशनायां साधुमार्गे मरूपिते तत्राशक्तानां श्रावकमार्गमप्युपदिशन्ति, तथा साधूनामप्यनेके जिनकल्पिकादयो भेदाः शक्त्यनुसारेणोपदिष्टाः, अन्यथोपदेशस्य वैफल्यापत्तेः, न हि बलवानपि वृषभो गजं वोढुं शक्नोति, अत एव 'संते बले वीरिए पुरिसकारपरक्कमे अठ्ठमी चउदसीणाणपंचमीपजोसवणाचाउम्मासीए चउत्थहमछठ्ठे न करेइ पच्छित्तं" ति श्रीमहानिशीथवचनं, तेन शक्त्यभावे बाह्यानुष्ठानेषु प्रतिक्रमणादिनियतानुष्ठानव्यतिरिक्तेषु वा अप्रवत्तमानोऽपि जिनाज्ञाऽऽराधको भण्यते, न चव पाश्वस्थादिमार्गोऽपि जिनाज्ञारूपो भविष्यतीति शङ्कनीयं तेषां सत्यामपि शक्तौ प्रमादादैहिकसुखलाम्पट्यात् प्रतिक्रमणादिवाह्यानुष्ठानानासेवनं, आसेवनं च जिनेन्द्रप्रतिषिद्ध। नामनुचितकृत्यानां न पुनस्तेषां ज्ञानाद्याराधनघिया सम्यगभिप्रायेतिकृत्वा बाह्यकृत्यं तावच्छक्ति संकलितं मणितमिति गाथार्थः ||२४|| अथ शक्तिरपि न्यूनाधिका केन हेतुनेत्याह
सत्तीवि अ दव्वाईसंकलिआ तेऽवि पंच परवसया । तेणं जिणकप्पाई बुच्छेओ जिणवरिंदुत्तो ||२५|| च पुनः शक्तिरपि - जीवसामर्थ्यमपि द्रव्यादिसंकलिता - द्रव्यक्षेत्र कालभावनाश्रिता, द्रव्यं वज्रर्षभनाराचादिसेवार्त्तपर्यन्तशरीरलक्षणं, उपलक्षणात्तदनुयायि मनःप्रभृतिद्रव्यमपि ग्राह्यं, मनोद्रव्याणामपि परिणतिः संहननानुसारेणैव स्याद्, अत एव प्रथमसंहननमन्तरेण सप्तम्यां मोक्षे वा न याति सेवार्चसंहननिनां तु द्वितीयपृथिव्यां चतुर्थदेवलोके चोत्कर्षत उत्पत्तिर्भणिता, ताहगूद्रव्ययोगेन जीववीर्यस्य तथैव संभवात् न ग्रुपकरणाभावे बलवानपि कार्यकरणसमर्थो भवति, यथा जातमात्रो भगवान् श्रीमहा
For Personal and Private Use Only
GOINGH SINGH DICHOIGHICHOIC
साधुसवासिद्धिः
॥२४९॥
www.jinelibrary.org