________________
DISIONGOING ONGOINGH DIGHIOING
श्रीप्रवचन- शक्नुवन्ति, एवं पार्श्वस्थानिवादयोऽपि यदि साधुपरम्परागतानुष्ठानं दृष्टिपथमागतं न भवेत्तर्हि तदनुकरणाशक्ता एव भवेयुरिति, एवं तीर्थबाह्या अपि बोध्या इतिगाथार्थः ।। २२ ।। अथ कटुकेन यथोक्तक्रियापरायणाः संप्रति साधवो न दृश्यन्त इति भणितं यत्तद् दूषयितुमाह
परीक्षा ९ विश्रामे ॥२४०॥
जं पुण जहुत्त किरिआ इच्चाइ विगप्पवयणउभाओ । महपावो जिणसमए पवयणउवघा यगत्तणओ ॥ २३ ॥ यत्पुनः यथोक्तक्रिया इत्यादि 'जम्हा जहुत्तकिरिआपरायणा नेव दीसंती'ति चतुर्थगाथाया उत्तरार्द्ध भणितं तेन यथोक्तक्रिया इत्यादि विकल्पवचनयोरुद्भावः - प्रकाशनं मूर्खजनानां पुरस्ताद्भणनं महापापो जिनसमये - जैनसिद्धान्ते, कुत इति हेतुमाह - प्रवचनोपघातकत्वाद् एतादृश उपदेशः प्रवचनोपघातको भवति, यदागम:- "सत्त विगहाओ पं० तं० - इत्थिकहा १ भत्तकहा २ देसकहा ३ रायकहा ४ मिउकालुणिआ ५ दंसणभेअणी ६ चरित्तभेअणी ७ "त्ति (५६९) श्रीस्थानाङ्गे, एतट्टीकादेशो यथा चारित्रभेदनी - न संभवन्तीदानीं महाव्रतानि, साधूनां प्रमादबहुलत्वादतिचारप्रभूतत्वादतिचारशोधकाचार्यतत्कारक साधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थं वर्त्तत इति ज्ञानदर्शनकर्तव्येष्वेव यत्नो विधेय इति उक्तं च- " सोही अ णत्थि न विही न करिंता नविअ केइ दीसंति । तित्थं च णाणदंसण निजवगा चेव वोच्छिन्ना ॥ १॥" इतीत्यादि, अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदभिमुखस्येति चारित्र भेदनीति इति स्थानाङ्गटीकायाम्, अत्र चारित्रभेदनी विकथा भणिता तादृशश्च तदुपदेशः, सच प्रवचनोपघातक एवेति गाथार्थः ||२३|| अथ यथोक्तक्रियाकारित्वमेवेह साधूनामिति समर्थयितुमाह
जेणं जहुत्त किरिआपरायणा संति साहुणो निच्चं । सद्दहणं अहिगिचा किचं पुण सत्तिसंकलिअं ॥ २४ ॥
For Personal and Private Use Only
Jain Education International
HORONGHOSHOHONGKONGH
साधुसत्ता
सिद्धिः
॥२४०॥
www.jainelibrary.org