SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२३६॥ ONIO उत्सूत्र भाषिणस्तीर्थमुपेक्ष्यैव प्रवत्तमानास्तीर्थाद् दूरवर्त्तिनो नियमादनन्तसंसारिणो महापापात्मान इति विशेषः, तस्माद्यावति क्षेत्रे यस्मिंश्च काले पार्श्वस्थोत्सूत्रिणो भवन्ति तावत्क्षेत्रमध्ये तस्मिंश्च काले साधवोऽवश्यं भवन्त्येव, यावति क्षेत्रे यस्मिंश्च काले साधवस्तावत् क्षेत्रमध्ये तस्मिंश्च काले पार्श्वस्थादयो भवन्त्येवेति न नियमः, यतस्तीर्थोत्पत्तेरारभ्य न तीर्थपर्यन्तं तदुद्भवः, किंतु जमाल्यादयः तीर्थोत्पत्तेरनुत्पन्नस्तीर्थे सत्येव विलयं गताः, एवं सांप्रतीना अध्यापाशपर्यन्ता दशापि प्रायो दत्तराज्ञः कालादर्वागेव विलयं यास्यन्ति, तीर्थं तु दुष्प्रसभाचार्यपर्यन्तं, नहि रोगोऽपि शरीराभावे तिष्ठति तिष्ठत्येव रोगाभावेऽपि शरीरं निराबाधमिति सर्वजनप्रतीतमिति - गाथार्थः || १३|| अथ दुष्पमासंघस्तोत्रमादाय यदुक्तवान् तद् दूषयितुमाह जं भणिअं संघथए इच्चाई तंपि मोहविण्णाणं । सुगुरुवएसाभावे कड्डुओ अण्णाणआवरिओ || १४ || यद्भणितं 'संघस्तवे' इत्यादि तन्मोहविज्ञानं - मिध्यात्वमोहनीमाहात्म्यं यत इति गम्यं यतः सुगुरूपदेशाभावे धर्मार्थि - कोsपि कटुको ह्यज्ञानावृतः अयं चोन्मार्गगामी तन्नाश्वर्यं यतः - "एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः १ ॥१॥| " इतिगाथार्थः || १४ || अथोद्भान्तिस्वरूपमाह जुगपवराणं मज्झे जुगवं जाया य केऽवि जुगपवरा । तव्वरिसाणि अगणणापंतीइ ठविज मूढमई ॥ १५ ॥ युगप्रवराणां मध्ये केsपि युगप्रवरा युगपद् - एकस्मिन् काले जाताः तद्वर्षाणि तदीययुगप्रधानपदवी संवत्सरान् गणनापङ्कौ स्थापयति मूढमतिः कटुकः, अयं भावः- एकस्मिन् काले ह्येको द्वौ वाऽनेके वा युगप्रवराः संभवन्ति तेषां च यानि वर्षाणि तानि गणनापतौ पृथकू २ संस्थाप्य संख्यासंकलनं करोति, एवं च क्रियमाणे काकतालीयन्यायेन किञ्चिन्न्यूनोऽप्युदयद्वयकालानुयायी कालः Jain Educationa International For Personal and Private Use Only साधुसचासिद्धिः ॥२३६॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy