________________
श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२३४॥
DUOSV"
DHONGINGHDIGHONGKOK
मातृस्तनचुम्बन कल्पमितिगाथार्थः || १२ || अथ पार्श्वस्थानादीनामप्युत्पत्तिस्वरूपमाह —
पासत्थाईणं चिअ संते तित्थंमि होइ उप्पत्ती । जह संतंमि सरीरे मलाइणो नन्नहा हुंति ॥ १.३ ॥
पार्श्वस्थादीनां 'चिय'त्ति निश्चये तीर्थे सत्येवोत्पत्तिः, आदिशब्दात् अवसनोत्सूत्रवादिनां परिग्रहः, तेन पार्श्वस्थादयः उत्सूत्रवादिनश्व, तीर्थे विद्यमाने सर्वजनप्रतीते सत्येवोत्पत्तिर्भवति, दृष्टान्तमाह- 'जह संतमि' त्ति यथा शरीरे सत्येव मलादयः - परिखेदसंबद्धरजोजन्यो मलो मलविशेषः आदिशब्दात् क्रमिषट्पद्यादयो जीवस्वरूपाः कुष्ठज्वरभङ्गदरादयो ह्यजीवरूपाः भेषजादिना साध्या असाध्याश्चानेकप्रकाराः भवन्ति, नान्यथा, शरीराभावे न भवन्तीत्यर्थः, अयं भावः - शरीरकल्पं तीर्थं मलसदृशाः पार्श्वस्यादयो बोध्याः, अत एव श्रीजगच्चन्द्रसूरि श्री सोमसुन्दर सूरिश्रीआणन्दविमलसूरिप्रभृतयो गर्गाचार्य श्रीकालकाचार्यादिवत् मलमिव तीर्थबाधाकारिणं पार्श्वस्थादिसमुदायमपास्योग्रविहारं कृतवन्तः, यत्तु कश्चित् - ते सूरयोऽपि समुदायसदृशा एवासन् परं तथाविधं सम्म्रदायं तथाविधं च खाचारं परित्यज्यान्यत्र क्रियामाश्रिता इति ब्रूते तदसम्यग् तथात्वे तीर्थोच्छेदापत्तेः, नहि तीर्थं संविग्राचार्यविरहितं भवेत् न च तादृशसमुदाये वर्त्तमान आचार्यः कथं पश्चाचारवान् भवेदिति शङ्कनीयम्, अनुचितसमुदायवानपि संविनः सूरिर्भवेदपि, यदागम: - " चत्तारि रुक्खा पं० तं०-साले नाममेगे सालपरिवारे, साले नाममेगे एरंडपरिवारे, एरंडे नाममेगे सालपरिवारे, एरंडे नाममेगे एरंडपरिवारे ४, एवामेव चत्तारि आयरिआ पं०, तं०-साले नाममेगे सालपरिवारे ४, सालदुममज्झयारे जहिं सालो नाम होइ दुमराया । इअ सुंदरआयरिए सुंदरसीसे मुणेअव्वे || १ || एरंडमज्झयारे जहिं सालो नाम होइ दुमराया । इअ सुंदरआयरिए मगुलसीसे मुणेअन्वे ||२|| सालस्स मज्झयारे एरंडे नाम होइ दुमराया । इअ मंगुलआयरिए सुंदरसीसे मुणेअव्वे |
Jain Educationa International
For Personal and Private Use Only
साधुसत्तासिद्धिः
॥२३४॥
www.jainelibrary.org