________________
कटुकम
श्रीप्रवचन
परीक्षा ९ विश्रामे ॥२३२॥
PROHSINORGHONOHORIGHHORIGHCHOREO
तेसुवि नामग्गाहं जे भणिआ सूरिणो महाभागा । उदयजुगे तेसिक्को नो दीसइ गुजरप्पमुहे ॥६॥
तेष्वपि-दुष्प्रसभपर्यन्तयुगप्रवरेष्वप्युदययुगे महाभाग्याः सूरयो नामग्राहं ये भणितास्तेषां मध्ये गूर्जरप्रमुखे-गूर्जरत्रावनिप्रभृतिष्वेको न दृश्यते, अपिगम्यः, एकोऽपि न दृश्यते इतिगाथार्थः॥६॥ अथ तस्माद्वयं किं कुर्म इति तदाशयमाविष्करोति
तम्हा कत्थवि अण्णत्थ साहुणो संति निअमओ भरहे । तेसिं निस्सा धम्म मणसीकाउं पवद्यामो॥७॥
यस्मात्प्रागुक्तं तस्मात्कारणादन्यत्र-दृश्यमानलिङ्गिप्रवृत्तिमद्भयोऽन्यत्र कुत्रापि नियमतः साधवः सन्ति भरते-भरतक्षेत्रे, तन्निश्रया' तेषां साधूनां निश्रया-निश्रामङ्गीकृत्य धर्मस्तनिश्राधर्मस्तं मनसि कृत्वा प्रवर्तामहे, तन्निश्रयाऽस्माकं धर्मो भवत्वित्यर्थः इतिगाथार्थः ॥७॥ यथ तस्योपदेशस्योपसंहारमाह
एवं तस्सुवएसो केवलमुवघायगो पवयणस्स । मूढाण मोहजणओ धिक्कारपहो उ पण्णाणं ॥८॥
एवं-प्रागुक्तप्रकारेण तस्य कटुकस्योपदेशः केवलं प्रवचनस्योपघातकः,अपिगम्यस्तथाभूतोऽपि मूढानां-मूर्खाणां मिथ्यात्वोपहतमतीनां मोहजनको-मिथ्यात्वमोहनीयस्य दीर्घस्थित्या पारम्पर्येणानन्तकालस्थित्या जनका,स एवोपदेशो धिक्कारपथस्तु प्राज्ञानांपण्डितानां सम्यग्दृशाम् , अहो पापात्मा प्रवचनोपघातकं ब्रूत इत्येवंरूपेण तिरस्कारास्पदमितिगाथार्थः ॥८॥ इति कदुकस्योपदेशो दर्शितः, अथ यदुक्तं 'अम्हं गुजरेत्यादि, तत्र प्रथमं बाधकमाहपच्चकवचकखुविसया न हुंति मुणिणोऽवि जस्स वग्गस्स । तजाईओ सट्टो न हुन्ज पासत्थपमुहावि॥९॥ यस्य वर्गस्य-श्रावकाणां पार्वेस्थादीनां वा समुदायस्य मुनयोपि-अपिरेवार्थे साधव एव प्रत्यक्षचक्षुर्विषया उपलक्षणात् तद
१९६१OOOO.GRORSkOUGHOUGRON
॥२३२॥
For Persona
Pives
neibraryorg