SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्राप्रवचन-1 परीक्षा ९ विश्रामे ॥२३१॥ DHORONGHOIGIONS अस्माकं गुर्जरप्रमुखे - गूर्जर रूमालव सौराष्ट्र मेदपाटमेवातादिषु मुनयः साधवो न चक्षुःपथं दृग्मार्ग व्रजन्ति, न दृष्टिमायांतीत्यर्थः एवोऽवधारणे, नैवेत्यर्थः, तत्र हेतुमाह - 'जम्ह'ति यस्माद्यथोक्तक्रियापरायणाः - शास्त्रोक्तक्रियातत्परा न दृश्यन्ते, किंतु क्रियासु लथा इतिभावः, एवमव्यक्तनिवोऽपि सम्यक्साधुनिर्णयाभावं ब्रुवाण आसीत् परं तदपेक्षयाऽयं कटुकः क्लिष्टपरिणामः, यतः स ब्रूते - अयं साधुर्देवो वेति निर्णयो नास्माकं परं साधवोऽत्रैव सन्ति, कटुकस्तु गुर्जरत्रा वन्यादौ दृश्यमानाः साधव एव न भवन्ति, किंतु केवलद्रव्यलिङ्गधारिणः साधवस्तु क्वापि वैताढ्य गिरिमूलादौ सर्वथा दृक्पथागोचरप्रदेशे सन्ति, एतच्च वचनं महादुर्वचनं, प्रवचनगन्धस्याप्युपघातकं, तेनाव्यक्तनिह्नवो देशेन सम्यक् तीव्रपरिणामवान् न स्याद्, अयं तु निवापेक्षयाऽनन्तगुणाभिनिवेशपरिणामयुक्त इतिगाथार्थः ||४|| अथ तस्यापरिज्ञानसूचिका श्रोतॄणां भ्रान्तिजनिका च या युक्तिस्तामाह संघए जुगपवरा जे भणिआ तेसि संपयं जुत्तो । विरहो न कालसंखासंकलणे इअ वयं तस्स ॥ ५ ॥ सङ्घस्तवे-श्रीदेवेन्द्रसूरिकृतदुष्षमाकालसंघस्तोत्रे ये युगप्रवराः - श्री सुधर्मादयो युगप्रधाना भणितास्तेषां कालसंख्या:युगप्रधान पदव्युदय काल संख्यास्तासां संकलने-मीलने सम्प्रति वर्त्तमानकाले विरहः - तदभावो न युक्तो-न संभवति, अयं भावः| श्रीसुधर्मस्वामिनोऽष्टौ वर्षाणि युगप्रधानपदवीकालः, श्री जम्बूस्वामिनश्चतुश्चत्वारिंशद्वर्षाणि युग०, श्रीप्रभस्वामिन एकादश वर्षाणि युग०, श्रीशय्यम्भवस्वामिनस्त्रयोविंशति० यशोभद्रस्वामिनः पंचाशत् श्रीसंभूतविजयस्याष्टौ • श्रीभद्रबाहु खामिनचतुर्दश० श्रीस्थूलभद्रस्यैकोनपंचाशत् यु० एवमुदयद्रयसंबन्धिनी युगप्रधान पदव्युदय काल संख्या भवतीति तस्य कटुकस्य वचो - वचनमुपदेशरूपमितिगाथार्थः ॥ ५ ॥ अथ तत्राप्युद्दीपन प्रकारमाह Jain Education International For Personal and Private Use Only SHOKG DIGIGE O20000 कटुकमतं ॥२३१॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy