________________
कटुकमतं
भीप्रवचन
परीक्षा ९ विश्रामे ॥२३॥
जानG
तत्रैवासक्तमिति गाथायुग्मार्थः ॥१-२॥ अथ तस्योपदेशं गाथाषट्रेन विवक्षुः प्रथमगाथामाह__ अव्वत्तनिण्हगाभिनिवेसविसअंधयस्स पावस्स । उवएसो महपावो पबयणउवधायगो नियमा ॥३॥
अव्यक्तनिवाः-तृतीयाः श्रीआषाढाचार्यशिष्याः अयं साधुर्देवो वेति निर्णयाभावेनाव्यक्तत्वमाश्रिता नो परस्परं विनयादिकं कुर्वन्ति तेषां योऽमिनिवेश:-(मिथ्यात्वं स इवाभिनिवेशः) एकस्याभिनिवेशस्य लोपस्तद्रूपं यद्विषं तेनान्ध एवान्धकः यथान्धो न |किमपि चाक्षुषं घटादिकं पश्यति तथाऽयमप्यभिनिवेशमिथ्यात्वावृत्तान्तरलोचनो न साध्वादिकं पश्यति, एवंविधस्य पापस्य-पापा-10 त्मन उपदेशो महापापः, केवलपापरूप इत्यर्थः, ननूपदेशकः पापात्मा भणितस्तदुपदेशस्तु महापाप इति भणितं तत्कथमितिचेदुच्यते, उपदेशमन्तरेण भूयोऽपि पापं कुर्वन् पापात्मा भण्यते, तदुपदेशस्तु महापापं भण्यते, यदुक्तं-"एकत्रासत्यजं पापं, शेष निश्शेषमेकतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥" इति श्रीयोगशास्त्रवृत्तौ, तथा चोपदेशवशादयं महापापात्मा भण्यते, तथापि तथाविधवाग्व्यापारहेतुक इतिकृत्वा उपदेश एव मुख्यवृत्या महापाप इति, अत एवाह-'पवयण'त्ति नियमात्-निश्चयेनोपदेशः 'प्रवचनोपघातक' प्रवचन-तीर्थमुपहन्तीति प्रवचनोपघातको भण्यते, प्रवचनोपघातकत्वं च सत्यपि साधुसमुदाये नास्माकं दृक्पथं साधवोऽवतरन्तीति तृतीयनिह्नवाभिप्रायमाविष्कुर्वन् व्यवहारनयलोपी स्यात् ,तल्लोपे च तीर्थोच्छेदजन्यं पातकं स्यात् ,यदागमः"ववहारनउच्छेए तित्थुच्छेओ हवइऽवस्स"मिति पश्चवस्तुके, एतच्च सर्वपापापेक्षया महापापमितिगाथार्थः ।।३।। अथाव्यक्तनिवाभिनिवेशतुल्यतां दर्शयितुमुल्लेखमाह
अम्हं गुज्जरपमुहे मुणिणो वचंति नेव चक्खुपहं । जम्हा जहुत्तकिरिआपरायणा नेव दीसंति ॥ ४॥
PEOXOCOMoka SCHOOT
IOHORRHONG
॥२३०॥
Jain Education inte
For Personal and Private Use Only
www.jainelibrary.org