SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा कटुको ॥२२९॥ SISORGHOTOHOROHORORIGONORENA अथ कटुकमतस्वरूपं निरूपयितुं प्रथम गाथायुग्मेन मताकर्षकनामसंवत्सराद्याहअह कडुअगिहत्थाओ जायं कुमयंपि कडुअनामेण । विक्कमओ चउसठ्ठी अहिए पन्नरससय १५६४ वरिसे ॥१॥ तस्स सरूवं किंची वुच्छं उवएसविसयमावणं । तित्थद्धभासरूवं केवलपूआसु पडियद्धं ॥२।। जुम्मं ॥ | 'अथेति लुम्पमतनिरूपणान्तरं क्रमप्राप्तं नवमं कटुकमतं यजातं तस्य स्वरूपं किंचिद्वक्ष्ये इत्यन्वयः, तत्कुमतमपि कटुकनाम्ना कुत इत्याह-'कटुक'त्ति कटुकगृहस्थात्-कटुकनाम्ना नागरज्ञातीयो वणिगासीत् , स च प्रकृत्या सम्यग्धर्मजिज्ञासुरपि तथाविधक्लिष्टकर्मोदयतथाभव्यत्वपरिपाकादिसामग्रीवशात् कश्चिदागमिकमतसंबन्धिनं वेषधरं प्रति धर्ममार्ग पृष्टवान् , तेन च पापात्मना भणितं-भो धर्मार्थिक ! यदि मदीयवचस्यास्था तर्हि आगमिकसामाचारमगीकृत्य श्रावकधर्ममेव कुरु, यतो नास्त्यधुना साधवस्तथा| विधक्रियाकरणशक्त्यभावादित्यादि दुर्वचनोद्धान्तो धर्मार्थिक इत्यात्मानं ख्यापयन् साधुमार्गपराअखस्तथाविधसाधुमार्गदूषणान्वेपणतत्परान् कतिचिजनान् विप्रतारयामास, स च विक्रमतश्चतुष्षष्ट्यधिके पश्चदशशतवर्षे सं. १५६४ वर्षे जातोऽतस्तन्मतं तदानीं जातं, तस्य मतस्य स्वरूपं किंचित्-स्वल्पं वक्ष्ये, यतस्तन्मतमागमिकमूलकमतस्तनिरूपणे तस्यापि निरूपणं जातमेवेतिकृत्वा किञ्चि|दित्युक्तं, तच्च किश्चित्ततोऽपि भेदरूपमत आह--'उवएसति उपदेशविषयमापनम्-उपदेशेनागमिकमतादपि भिन्नमितिकृत्वा उप| दुपदेशविषयमापन्नं-प्राप्तं सद्वक्ष्ये, यथा तस्योपदेशः स व्यक्तीकरिष्यत इत्यर्थः, पुनः कीदृशं १-'तीर्थार्द्धाभासरूपं तीर्थाध-श्रावकश्राविकालक्षणं तदिवाभासते इति तीर्थार्धाभासः, तीर्थार्द्धमसदपि तद्वद् आभासत इति तीर्था भासःस एव रूपं-स्वरूपं यस्य तत्तथा, पुनरपि कीदृशः १-'केवलपूजासु प्रतिबद्धं जिनपूजैव श्रेयस्करी भविष्यतीति थिया तीर्थाध साधुसाध्वीलक्षणं तिरस्कृत्य केवलं CHOROSHOGHONOOGHOOOO ॥२२९॥ For Pesand Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy