________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥२२७॥
GOOOOOGASHOG
तु गुरवः प्रवचनप्रभावनैकदृष्टयः प्रवचनप्रत्यनीकोच्छेदसमर्थाः श्रीहरिभद्रसूरिप्रभृतयो भूतपूर्वाः भाविनश्च सुमङ्गलसाधुप्रभृतयः,
लुम्पका
शिक्षाहेतुः वर्तमानास्तु कालानुभावात्तथाविधशक्तिरहिता अपि प्रवचनप्रत्यनीकेषु भवादृशेषु सुमङ्गलसाधुकर्त्तव्यताशति भाक्त्वमात्मनः स्पृहयन्त एव बोध्याः, तव तु लिखनकर्मोपजीवी शौचाचारेऽप्यज्ञः असमर्थश्चलुम्पकनामा लेखक एवेत्याक्रोशवचोमिस्तिरस्कृत्य यथाशक्ति शिक्षणीयः,यदागमः-"साहूण चेइआण य पडिणीअंतह अवण्णवायं च । जिणपवयणस्स अहिअंसव्वत्थामेण वारेइ ॥१॥” इति श्रीउपदेशमालायां, तथा “से किं तं वण्णसंजलणया?,वण्णसंजलणया चउब्धिहा पण्णत्ता, तं०-अहातच्चाणं वण्णवाई आविभवइ १ अवण्णवाई पडिहणित्ता भवइ २ वण्णवाई अणुव्हयित्ता भवति ३ आया वुडुसेवीआवि भवति ४"इतिश्रीदशाश्रुतस्कन्धे आचा| र्यसंपदर्णनाधिकारे, एतच्चूर्णियथा-पढमे भंगे याथातथ्यानां वर्णना, जो अवण्णं वदति तं पडिहणति, वण्णवादि अणुवृहति, गुणवानेव जानीते वक्तुं, 'आयावुडसेवि आविभवति' वुड्डो आयरिओ निचमेव पज्जुवासति-अविरहितं करोति, आसणहितो अ इंगिआगारेहिं जाणित्ता करेति इति श्री दशा० चू०, अत्र द्वितीयविकल्पे आचार्यस्य शिष्यस्तादृशो भवति यः साध्वादिप्रवचनस्यावर्णवादिनं प्रतिहन्ता भवति, अत एव हरिकेशिसाधुनाऽपि स्खनिमित्तं यक्षेण हतेष्वपि ब्राह्मणकुमारेषु यक्षो वैयावृत्त्यकारी भणितः, यदागमः-"पुव्विं च इण्डिं च अणागयं च, मणप्पदोसो न मे अत्थि कोई । जक्खा हु वेआवडिअं करिति, तम्हा हु एए निहया कुमारा ॥१॥" इति श्रीउत्तरा० १२ (३९०*) वैयावृत्त्यं च महानिर्जराहेतुः तीर्थकरपदतानिबन्धनं, यदागमः-"वेयावच्चेणं भंते ! जीवे किं जणेइ ?, वेयावच्चेणं तित्थयरनामगोयं कम्मं निबंधइति श्रीउत्त० २९, वैयावृत्त्यं साध्वादिभिः सर्वैर्यथाशक्ति
Tal॥२२७|| करणीय, सामर्थ्याभावे च वैयावृत्त्यकारणं सामर्थ्य स्पृहणीयमेव, एतेन कथं साधवस्तथा स्पृहयन्तीति पराशङ्काऽपि व्युदस्ता,
ROSHOUGHOUGHOUGHOUGHRO
For Pesand Private Use Only