________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥२२६॥
ONDONG
जैनशासनप्रत्यनीकं गईभिल्लं नामानं राजानं निवारितवान्, तथा श्रीहरिभद्रसूरिरपि बौद्धान् प्रवचनप्रत्यनीकान्निव। रितवान् एवं साधुप्रत्यनीकं विमलवाहननामानं राजानं सुमङ्गलसाधुर्भस्मसात्करिष्यतीति प्रवचने प्रतीतं, तदीदृशी च शक्तिर्मयि नास्ति, अस्ति च संप्रति कालानुभावात् संज्ञामात्रसूचकवाक्प्रयोगजन्ये निवारणे, तच्चास्मिन् प्रकरणेऽनेकप्रकारेण प्रयुक्तं, परं फलवत् सुमङ्गलसाधुसदृशे सामर्थ्ये सत्येव स्याद्, अथ तादृशसामर्थ्याभावे निदानमाह - 'दुण्हंपी' त्यादि, द्वयोरपि माढक्कुपाक्षिकयोस्तीर्थकुपाक्षिकयोर्वा कर्मोदयात्, मादृशेन प्राग्जन्मनि तदेव कर्मार्जितं येन तीर्थभक्तस्यापि मादृशस्य तीर्थरोगकल्पकुपाक्षिकवर्गस्य निवारणे शक्तिराहित्यं, कुपाक्षिकैश्च तत् प्राकर्मोपार्जितं येनानन्तभवहेतुतीर्थाशातनाकरणस्य निवारकः शक्तिमान् न मिलिष्यति, यद्वा संपतितीर्थेन सामु |दायिकं कर्म तदेव कृतं येन धर्मकरणावसरे शुभध्यानमालिन्यादिहेतवस्तीर्थस्य परमरोगकल्पाः कुपाक्षिका उत्पत्स्यंते इति, एवंविधकर्मोदयात्सामर्थ्याभावः नन्वेवं कथमितिचेच्छृणु, सुमङ्गलसाधुनाऽपि निजबले प्रयुक्ते साधुचारित्रशरीर रोगकल्पे विमलवाहने | विलयं नीते स्वस्यापि चारित्रपालनं सुकरं जातं, विमलवाहनोऽपि सुमङ्गलमुपद्रुत्यान्यानप्युपाद्र विष्यत्, तथा च भूयोऽनन्तभव भ्रमणहेतुकर्मोपार्जनमकरिष्यत् तच्च न जातमतो महान् गुणो राज्ञोऽपि, तथा यदि मयि तादृशं सामर्थ्यं स्यात्तर्हि जैन प्रवचनशरीरे रोगकल्पेषु कुपाक्षिकेषु चिकित्सितेषु रोगरहिते जैनप्रवचने विद्यमाने साध्वादीनां निजधर्मानुष्ठानं निरपायं स्यात्, कुपाक्षिकाणामपि प्रतिसमयं तीर्थोच्छेदाध्यवसायजन्यं पापं न स्यादित्युभयेषामपि कर्मोदयादेव जैनप्रवचनरोगोच्छेदे तथाविधसामर्थ्याभावः, एतेन ननु भो भवतां गुरवस्तु बौद्धहन्तृश्री हरिभद्रसूरिमुद्गलान यनपुरस्सर गई मिल्लो च्छेदक श्रीकालकसूरिप्रभृतय एवेति वचोभिः समलङ्कतं सत्पुरुषं प्रति विगतवसनो देवतायत्त इवोपहसन्नेव निरस्तो बोध्यः, यतस्तथाविधवक्तारं लुम्पकं प्रत्येवं वक्तव्यं ननु भो लुम्पक ! अस्माकं
Jain Education International
For Personal and Private Use Only
SHONGKONGHONG
लुम्पकाशिक्षाहेतुः
॥२२६॥
www.jainelibrary.org