SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२२५॥ SONGDISHONGKONGHOGHDIOHO तम्मुहचवेडदाणे देवावि निरुज्जमा दुफास भया । जह नीअफास भीओ अ बंभणो भोअणुज्जुत्तो || १६८ || 'तन्मुखचपेट दाने' तस्य - लुम्पकस्य मुखे चपेटा - हस्ततलाह तिस्तस्या दाने देवा अपि निरुद्यमा - उद्यमरहिताः, 'कुस्पर्शभयात् ' कुत्सितो - निन्द्यो यः स्पर्शस्तस्मात्, चपेटादाने ह्यवश्यं स्पर्शः कर्त्तव्यः स्यात् स च नास्माकमुचित इति भयादिवोत्प्रेक्ष्यते तथाभूताः, तत्र दृष्टान्तमाह- ' जहे 'त्यादि, यथा नीचस्पर्शाद्भीतः - चाण्डालादिस्पर्शभीतच ब्राह्मणो भोजनोद्यतो भवति, भोजनक्रियापरायणो हि ब्राह्मणो नीचवर्णस्पर्शभयाकुल एव स्याद्, अन्यथा भोजनसामय्या वैयर्थ्यापत्तेः, तथा देवा अपि लुम्पकस्पर्शानास्माकं पुण्यप्रकृतिविघ्नोऽभूदित्यभिप्रायात्तत्स्पर्शविरक्ता इतिगाथार्थः || १६८ ॥ अथ देवनिवारणाभावे गत्यन्तरमाह - तस्स व न कोई मित्तं देवाई जं न देइ अवहत्थं । हालाहलं पिअंतं वारिज्जह सो परममित्तं ॥ १६९ ॥ तस्य लुम्पकस्य देवादि:- असुरकुमारादिदेवोऽथवा समर्थो मनुष्यश्च कोऽपि मित्रं नास्ति, यतः कारणादपहस्तं - हस्ततलाधोभागं चपेटास्वरूपेण न ददाति, हालाहलं विषं पिबन्तं यो वारयेत् - चपेटादानादिपुरस्सरं निवारयेद्, हस्तादुद्दालय विक्षिपेद्, एवकारोऽध्याहार्यः, स एव परमं मित्रं, नान्योऽप्युपेक्षक इतिगाथार्थः || १६९ || अथ यद्यपि मादृशे मित्रे विद्यमानेऽपि कोऽपि मित्रं नास्तीति वक्तुमयुक्तं, परं तत्र गतिमाह मित्तंपि तुहं अम्हारिसो हु सो दूसमाणुभावेण । सत्तिरहिओ अ सिक्वादाणे दुण्हंपि कम्मुदया ॥ १७० ॥ कुपाक्षिक! तामाशी मित्रमपि दुष्पमानुभावेन शिक्षादाने शक्तिरहितः, निवारणं च शक्तिसाध्यम्, यथा मणिनागेन यक्षेण क्रियाद्वयवादी गङ्गो निवारितः, यद्वा तिष्यगुप्तश्वरमप्रदेशजीववादी श्रेष्ठिनासमुच्छेदवादी च मित्र श्रीराज्ञा (जेन) निवारितः, तथा कालकाचार्यो। Jain Education International DIGHONGKHolatorONGHONGIानम For Personal and Private Use Only लुम्पकाशिक्षा हेतुः ॥२२५॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy