________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२२५॥
SONGDISHONGKONGHOGHDIOHO
तम्मुहचवेडदाणे देवावि निरुज्जमा दुफास भया । जह नीअफास भीओ अ बंभणो भोअणुज्जुत्तो || १६८ || 'तन्मुखचपेट दाने' तस्य - लुम्पकस्य मुखे चपेटा - हस्ततलाह तिस्तस्या दाने देवा अपि निरुद्यमा - उद्यमरहिताः, 'कुस्पर्शभयात् ' कुत्सितो - निन्द्यो यः स्पर्शस्तस्मात्, चपेटादाने ह्यवश्यं स्पर्शः कर्त्तव्यः स्यात् स च नास्माकमुचित इति भयादिवोत्प्रेक्ष्यते तथाभूताः, तत्र दृष्टान्तमाह- ' जहे 'त्यादि, यथा नीचस्पर्शाद्भीतः - चाण्डालादिस्पर्शभीतच ब्राह्मणो भोजनोद्यतो भवति, भोजनक्रियापरायणो हि ब्राह्मणो नीचवर्णस्पर्शभयाकुल एव स्याद्, अन्यथा भोजनसामय्या वैयर्थ्यापत्तेः, तथा देवा अपि लुम्पकस्पर्शानास्माकं पुण्यप्रकृतिविघ्नोऽभूदित्यभिप्रायात्तत्स्पर्शविरक्ता इतिगाथार्थः || १६८ ॥ अथ देवनिवारणाभावे गत्यन्तरमाह -
तस्स व न कोई मित्तं देवाई जं न देइ अवहत्थं । हालाहलं पिअंतं वारिज्जह सो परममित्तं ॥ १६९ ॥ तस्य लुम्पकस्य देवादि:- असुरकुमारादिदेवोऽथवा समर्थो मनुष्यश्च कोऽपि मित्रं नास्ति, यतः कारणादपहस्तं - हस्ततलाधोभागं चपेटास्वरूपेण न ददाति, हालाहलं विषं पिबन्तं यो वारयेत् - चपेटादानादिपुरस्सरं निवारयेद्, हस्तादुद्दालय विक्षिपेद्, एवकारोऽध्याहार्यः, स एव परमं मित्रं, नान्योऽप्युपेक्षक इतिगाथार्थः || १६९ || अथ यद्यपि मादृशे मित्रे विद्यमानेऽपि कोऽपि मित्रं नास्तीति वक्तुमयुक्तं, परं तत्र गतिमाह
मित्तंपि तुहं अम्हारिसो हु सो दूसमाणुभावेण । सत्तिरहिओ अ सिक्वादाणे दुण्हंपि कम्मुदया ॥ १७० ॥ कुपाक्षिक! तामाशी मित्रमपि दुष्पमानुभावेन शिक्षादाने शक्तिरहितः, निवारणं च शक्तिसाध्यम्, यथा मणिनागेन यक्षेण क्रियाद्वयवादी गङ्गो निवारितः, यद्वा तिष्यगुप्तश्वरमप्रदेशजीववादी श्रेष्ठिनासमुच्छेदवादी च मित्र श्रीराज्ञा (जेन) निवारितः, तथा कालकाचार्यो।
Jain Education International
DIGHONGKHolatorONGHONGIानम
For Personal and Private Use Only
लुम्पकाशिक्षा हेतुः
॥२२५॥
www.jainelibrary.org