SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ परीक्षा ८ विश्रामे ॥२२३॥ DNEYONGYORDINGING तेऽव्यक्ता भण्यते, एतच्च तीर्थव्यवस्थापनावसरे ग्रन्थसम्मत्या दर्शितमिति श्रीमहानिशीथं तपागणतीर्थस्य प्रमाणं कथमित्यत्रापि | हेतुर्दर्शित इतिगाथार्थः ॥ १६३ ॥ इति कुपाक्षिकाणां श्रीमहानिशीथं न प्रमाणमित्यादौ हेतुर्दर्शित इति षष्ठं द्वारं ॥ अथ प्रकृतस्य लुम्पकस्य हितोपदेशमाह - लुंपगमित्तुवएसं सुणाहि जं सुत्तपमुहहीलाए । आजीविआइकरणं मरणं तत्तो तुहं सेअं ॥ १६४ ॥ ननु भो लुम्पक ! मित्र उपदेशं शृणु, यत्सूत्रप्रमुखहीला-सूत्रनिर्युक्तिभाष्य चूर्णिप्रभृतीनां हीला-इदं घटते इदं च नेति निजम|तिविकल्पनेन तिरस्कारस्तया आजीविकाकरणम् - उदरपूर्त्तिनिर्मापणं 'तत्तो' तस्मात्तव - लुम्पकस्य मरणं श्रेयो-मङ्गलमिति मम मित्रस्याशीर्वचनं हितोपदेशः, नन्वेवं हितोपदेशो लुम्पकमुद्दिश्यैव दत्तो नेतरेभ्यस्तत्किमितरैः सह मैत्रीभावो नास्ति ? उत हितोपदेशानह एवेति चेत्सत्यं, उपलक्षणसूचितानामपरेषामप्ययमेव हितोपदेशो बोध्यः, यथा 'काकेभ्यो दधि रक्ष्यता' मित्यत्र काकपदोपलक्षिता यावद्दध्युपघातका बोध्याः, यद्वा हितोपदेशानर्हा अपि, यतो लुम्पाकः प्रवचनप्रत्यनीकः प्रकटः, शेषास्तु स्थूलधीघनानां सहसा ज्ञानागोचराः गुप्ताः, ते च लुम्पकापेक्षया दुराशयाः, यदुक्तं - " वरं वराकचार्वाको, योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छद्मच्छन्नं रक्षो न जैमनिः || १ ||" इति योगशास्त्रे इतिगाथार्थः || १६४ || अथ जगत्स्थित्याऽप्यसंभवि स्वरूपं दिदर्शयिषुर्गाथायुग्ममाहचित्तं लुंपगलेहगवजं बुचिज्ज वीर जिणवचं । गत्तासूअरवव्वं गईदवचंव अप्पाणं ॥ १६५ ॥ जिणवरठविअं तित्थं हिंसाधम्मस्स भासगं लोए । लुंपगकप्पिअमग्गो दयापहाणो उ सिवमग्गो ॥ १६६ ॥ युग्मं चित्रम्-आश्चर्यं लुम्पकलेखकापत्यं वीरजिनापत्यमात्मानमित्युत्तरार्द्धाक्तमिहापि संबन्ध्यते ब्रूते, अहं श्रीवीरजिनेन्द्रापत्यमिति Jain Educationa International For Personal and Private Use Only DINGKONGKONGOONGS लुंपकहितो-पदेशः ॥२२३॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy