SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ . परीक्षा ८ विश्रामे ॥२१९॥ संक्षेपविस्तराविरुद्धता HOUGHOUGHOUGHOUGHOGHOSHONG संक्षेपं विस्तरं च परित्यज्य प्रकारान्तरेणैव संक्षेपतो विस्तरतो वा रचना संभवति, न चैवं वैचित्र्यं कथमितिशङ्कनीय, यत आस्तामपरजनः, एकस्यापि जीवस्य कालादिसामग्रीवशात् कर्मणां क्षयोपशमवैचित्र्यं, तशाच्च विचित्रा रुचयस्तदनुसारेण च शास्त्रादिरचना, यथा संप्रत्यपि माहशस्यापि तथाविधोक्तप्रकारेण कर्मक्षयोपशमवैचिच्यात् कुपाक्षिकविकल्पितमार्गतिरस्कारपूर्वकतीर्थव्यवस्थापने रुचिः, तदनुसारेणैतत्प्रकरणकरणेऽपि प्रवृत्तिः, एवं च सति उक्तप्रकाराणां सूत्राणां विचित्ररचनायामपि न परस्परं विरोधगन्धोऽपि भावनीयः, तत्र दृष्टान्तमाह-'जहे' त्यादि, यथा क्वचित्सूर्यः पूर्वस्यामुदेति, कचित् पश्चिमायामस्तमेति. क्वचित्पूर्वस्यामुदत्य पश्चिमायामस्तंगमी,क्कचिनिजतेजसा दीप्यमानोऽन्धकारप्रकरं प्रस्फोटयन निषधशिखरमासाघोदितः क्रमेण पश्चिमायामस्तमितः, क्वचिद्विशेष्यवाचकनामशून्यमपि प्रागुक्तं विस्तरवाक्यं, क्वचित्पूर्वस्यामुदयं प्राप्य पश्चिमायामस्तगते तारादीनां तेजः प्रससारेत्यादावर्थादेव सूर्योऽवगम्यते नापर इत्येवं सर्वत्राप्यविरोध एवेतिगाथार्थः ॥१६०॥ अथ प्रकारान्त| रेणापि कुपाक्षिकोद्भावितं विरोधमपाकर्तुमाह नामुच्चाराभावे नामुच्चारुब्व अत्थउवलंभो । न विरोही किंतु पुणो निसेहवयणुब्वष्णुवलंभो ॥१६१॥ नामोच्चाराभावे नामोच्चारवदर्थोपलम्भो न विरोधी, नामोच्चारोऽर्थोपलम्भश्च नाम्न उच्चाराभावस्य विरोधिनौ न स्यातां, किंतु | निषेधवचनं पदार्थानुपलम्भश्चेति द्वावपि विरोधिनावित्यर्थः, अयं भावः-अत्र घटोऽस्ति नास्ति चेत्यादि केनापि नोक्तम् , एवं च | सति केनचिदुक्तमत्र घटोऽस्ति, यद्वाऽनुक्तोऽपि चक्षुषोपलभ्यते, न चैवं कश्चिद्विरोधः, विरोधस्तु केनचिदस्तीत्युक्तं यद्वा नोक्तं, परं तत्सद्भावविरोधि नास्तीति वचनं तदनुपलम्भो वा, यद्यत्र घटोऽभविष्यचहि भूतलमिवाद्रक्ष्यदित्यादितर्कावतारेणास्तित्वविरोधः। DIGHONOHONORONGHONOG भश्चति द्वावपिन विरोधी, नाला किंतु पुणो र ॥२१९॥ For Pond Prive Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy