________________
अतिमसंगदोषः
श्रीप्रवचन-2
सुसाध्यः, एवं सति चैत्यादिपूजा अमुकग्रन्थे नास्त्यमुकग्रन्थे वाऽस्ति स च ग्रन्थो नास्माकं प्रमाणं, नास्तीति ग्रन्थेन सह विरोधा-1 परीक्षा
दित्यादिप्रवचनवाचालः कुपाक्षिको निरस्तो बोध्य इतिगाथार्थः॥१६॥ इतिसंक्षेपविस्तरयोः नाम्ना सूचितासूचितयोश्च ८ विश्रामे|
न विरोध इति चतुर्थद्वारं दर्शितमिति ॥ अथातिप्रसङ्गरूपं पश्चमद्वारमाह॥२२०॥
अण्णह अइप्पसंगो पवयणमित्तस्स वायओ होइ । अहवा सयलं सुत्तं एगसरूवेण सम्मति ॥१६२॥
'अन्यथा' संक्षेपविस्तरयोः नाम्नाऽपि सूचासूचयोश्च विरोधाङ्गीकारे अतिप्रसङ्गः प्रवचनमात्रस्यापि त्यागतो भवति,अङ्गोपाङ्गादि | सकलमपि जैनप्रवचनं परिहरणीयं स्याद् , यतः सूत्राणां रचना नानाप्रकारा, तथाहि-चतुर्विंशतिस्तवे नाम तीर्थकृतां नामान्येव सन्ति, न पुनर्मातापितरोऽपि, क्वापि चैहिकभवव्यतिकरः कल्पमूत्रादौ, क्वापि च पूर्वभवादिसमन्वितैहिकभवव्यतिकरः श्रीमहावीरचरित्रादौ, तत्रापि ग्रन्थकर्तृकर्मक्षयोपशमवशादनेकधापि, तत्सर्वमपि कुपाक्षिकाभिप्रायेणान्योऽन्यं विरोधि, तत्र चामुकं परिहृत्यामुकमुपादीयते इत्यत्र नियामकाभावेन सुंदोपसुन्दन्यायप्राप्तं सर्वमपि परिहरणीयं स्यात् , न च तत्रापि सूत्रस्य बलवत्वेन तदेवास्माकं प्रमाणं, न प्रकरणादीति वाच्यं, प्रकरणादिकमन्तरेण सूत्रस्याकिश्चित्करत्वात् , प्रकरणादीनां च 'ग्रन्थान्तरं टीके तिन्यायात्स्त्रव्याख्यानरूपत्वाच्च, अन्यथा “समणस्स भगवओ महावीरस्स भारिआ जसोआ कोडिण्णागोतेण ति सूत्रे भणितं, सा च | भार्या परिणीता उतापरिणीता?, सापि राजपुत्री इतरा वा?, परिणीतापि स्वयमभ्युपगता उत मात्राद्यनुरोधाद्वा, विवाहकृत्यमपि परम्परागतकुलाचारेण वा तीर्थकरत्वेनापरप्रकारेण वेत्यादि निर्णयः, तथा "समणस्स भगवओ महावीरस्स धूआ कासवगोत्तेणं तीसे दो नामषिजा एषमाहिअंति तं०-अणोजाइ वा पिअदंसणाइ वा" इत्यत्र सा पुत्री मानुष्यकान् कामभोगान भुञानस्य भगवतो।
FOROLOHOGOTHOUGHOUGH
GHORGOOGOUGHO
॥२२०॥
Jain Education Internation
For Personal and Private Use Only
www.ncbrary.org