SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवतादिस्तुतिसिद्धिः GHONGKONGSO श्रीप्रवचन-मिहितं तदपवादतोऽन्यथैव स्याद् , उत्सर्गापवादौ च तीर्थकृद्भिर्भणितावितिगाथाथः॥३०॥ अथोक्ते सम्मति सूत्र एव निर्दिशति,यतः परीक्षा तम्हा सव्वाणुण्णा सव्वनिसेहो अपवयणे नत्थि । आयं वयं तुलिज्जा लाहाकंखिव्व वाणिअओ॥३१॥ ७विश्रामे एतट्टीका यथा, यत एवं तस्मात् स्थितमेतत्-सर्वप्रकारैरनुज्ञा यदुतेदं कर्तव्यमेवेति सर्वानुज्ञा, तथा सर्वनिषेधो यदुतेदं न ॥२०॥ | कर्त्तव्यमेवेति प्रवचने-सर्वज्ञागमे नास्ति, चशब्दस्खेहावधारणार्थत्वेन संबन्धात् नास्त्येव, सर्वकर्त्तव्यानां द्रव्यक्षेत्रकालभावाद्य| पेक्षया विधानाभिषेधाच्च, द्रव्यादीनां च वैचित्र्येण क्वचिद्विषये विधेयस्यापि निषेधावसरः स्यात् , निषिद्धस्यापि च विधानमापद्यते, | तदुक्तम्-"उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात् , कर्मकार्य च वर्जयेत् ॥१॥" क इवेत्याह-लाभाकाङ्कीव वाणिजको, यथाऽसावायव्ययतुलनया बहुला प्रवर्त्तते, तथा लाभेन प्रवर्त्ततेत्यर्थः, केवलं प्रवर्त्तमानेन रागद्वेषपरिहारेण सम्यगात्मा योजनीयो, न शाठ्यादपुष्टावलम्बनं विधेयमित्याहेत्यादि श्रीउपदेशमालागाथार्थः॥३१॥ अथ किं संपन्नमित्याहतेणं भगवइठाणयअविरोहो होइ सम्मदिट्ठीणं । तित्थुइओ खलु तित्था बज्झो बज्झाण बज्झाउ॥३२॥ तेन-प्रागुक्तयुक्त्यादिदर्शनविधिना भगवतीस्थानाङ्गाविरोधः-भगवत्यां श्रावकाणामपि यक्षादिनिश्राराहित्यं भणितं स्थानाङ्गे चाचार्योपाध्यायानामपि मत्राधाराधनं भणितम् , उपलक्षणाच्छ्रीभद्रबाहुखामिना च श्रुतक्षेत्रदेवतादिस्तुतिदानं भणितं, कृतं च श्रीहरिभद्रसूरिमिः संसारदावादिस्तुतिकरणेन, इत्येवंरूपेण भगवतीस्थानांगयोर्यो विरोधस्तदभावोऽविरोधो भवति,केषां ?-सम्यग्दृष्टीनां, मिथ्यादृशां कुपाक्षिकाणां तु सर्वत्रापि विरोध एव प्रतिभासते, तेषां तथास्वभावात् , अत एव त्रिस्तुतिकः-आगमिकापरनामा खलुरवधारणे त्रिस्तुतिक एव 'बाह्यानां बाह्यात् बाह्यो'-बाह्यानां-तीर्थबहिर्भूतानां पौर्णिमीयकानां मध्यात् बाह्यः-स्तनिकस्तस्मादपि बाह्य PRORONOHORGROGROUGHOUSRO D IOHOL ॥२ ॥ Jain Education Intematon For Personal and Private Use Only www.janebry.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy