________________
श्रीप्रवचन
क्ष ७ विश्रामे
॥१९॥
DIGHOK
DRO
क्तस्थले बोध्यः, जिनाज्ञा च नैहिकार्थं, किन्तु धर्मार्थं तच्च प्रवचनहितं श्रुतदेवताद्याराधनम्, अन्यथाऽर्हदाज्ञाया असंभवादिति | गाथार्थः ||२७|| अथ यस्मादाज्ञाव्यतिरिक्तस्थले नियमः - 'तेणं'ति तेन कारणेन सम्यग्दृष्टीनां देवतादीनामाराधनं - स्तुत्यादिकरणेन तुष्टिजननं न विरुद्धम् - अविरुद्धं युक्तमित्यर्थः, यथा सप्तमो निहवो - गोष्टामाहिलो जीवस्य कञ्चुकन्यायेन कर्मबन्धं प्ररूपयन् तीर्थनिवारितोऽपि न तिष्ठति तदा तीर्थेन गोष्ठामाहिलस्वरूपपरिज्ञानाय शासनसुरीमाराध्य महाविदेहे तीर्थकरसमीपे प्रेषिता, तया च तीर्थकृत् पृष्टः- किं गोष्ठामाहिलः सम्यग्वादी उत दुर्बलिका पुष्पमित्रप्रमुखः सङ्घो वेत्युक्ते तीर्थकृतोक्तं-गोष्ठामाहिलो मिथ्यावादी सप्तमो निह्नव इत्यादि सर्वजनप्रतीतमितिगाथार्थः ||२८|| अथ श्रुतदेवतादिदृष्टान्तेन स्वमत्या यथा तथा यक्षाद्याराधनतत्परः कीदृग् स्यादित्याह -
आणाभिणडाणे इच्छंता जकूखपमुहसाहज्जे । पायं धम्मपभट्ठा णो धम्माराहगा हुंति ||२९|| आज्ञाभिन्नस्थाने-जिनाज्ञाव्यतिरिक्तस्थले यक्षादिसाहाय्यमिच्छन्तः प्रायः धनपुत्राद्यर्थं तदाराधनतत्परस्तदपूर्ती प्रायो धर्मप्रभ्रष्टाः - धर्ममार्गपराङ्मुखा धर्माराधका नो भवन्ति तेन धर्मार्थिनां यक्षादिसांनिध्यमकिञ्चित्करम्, अत एव देवाद्युपसर्गेऽपि श्रावका अप्यचलाः प्रवचने निर्दिष्टा इतिगाथार्थः ॥ २९ ॥ नन्वेवं श्रुतदेवताद्याराधनमप्ययुक्तं भविष्यतीति पराशङ्कामपाकर्तुमाहनय किंचि पडिसिद्धं सव्वं सव्वप्यारओ समए । उस्सग्गाइविवक्खा दक्खा कहमण्णहा होइ १ ॥ ३० ॥
न च सम-जिनशासने सर्वं वस्तु प्रतिषेधाह सर्वप्रकारेण सर्वथा प्रतिषिद्धमस्ति, अन्यथा यदि सर्वथा प्रतिषिद्धं स्यात्तर्हि उत्स |र्गादिविवक्षा- उत्सर्गापवादविवक्षा उत्सर्गपदे तावदित्थमित्थं चापवादपदे इत्यादिविवक्षा दक्षा-निपुणा कथं भवति ?, यदुत्सर्गेणा
Jain Educationa International
For Personal and Private Use Only
HONGHONGKONG OID
श्रुतदेवतादिस्तुतिसिद्धिः
॥१९॥
www.jainelibrary.org.