SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवतादिस्तुति श्रीप्रवचन परीक्षा ७विश्रामे ॥१८॥ सिद्धिः विद्यते किञ्चनं येषां तेऽकिश्चनाः भणिताः, केन !-धीरेण-केवलज्ञानबलवता वीरेण-श्रीमहावीरतीर्थकृतेति दृष्टान्त इतिगाथार्थः ॥२४॥ अथ दाान्तिकमाह-तथा प्रागुक्तदृष्टान्तेन धर्म-जिनोक्तमार्गे दृढचित्ताः भवन्तो यक्षादिसहायाभावेऽपि आज्ञया श्रुतदेवीप्रमुखाणां सहायमिच्छन्ति, अयं भावः-उपकरणानामिवाज्ञया श्रुतदेवतादिसहायतामिच्छतामपि साध्वादीनामकिश्चनत्वमिव यक्षादिसहायाभाव एवेतिगाथार्थः ॥२५॥ अथ प्रकारान्तरेणापि कथश्चियुक्तिभेदमाह__ इहलोइअतुट्ठा किंचिवि नेच्छंति जखपमुहेहिं । तेणं वा तन्निस्सारहिआ भणिआ य धम्मरया ॥२६॥ इहलौकिका अर्थाः-धनधान्यपुत्रकलत्रादयस्तेषु तुष्टा:-पूर्णतया निःस्पृहतया वा संतोषभाजोऽनिच्छव इत्यर्थः, संसारखरूपसम्यक्परिज्ञानादनन्तशोऽवाप्ता इमे संयोगा इत्येवमनासक्ताः किंचिदपि ऐहिकार्थ वस्तुजातं यक्षप्रमुखेभ्यो नेच्छन्ति तेन वा-अथवा | तन्निश्रारहिता-यक्षादिसांनिध्यरहिता धर्मरताः-जिनधर्मपरायणा भणिता इतिगाथार्थः ॥२६।। अथ यक्षादिनिश्रानिषेधेन न श्रुतदेवतादिस्तुत्यादिनिषेध इत्याहसुअखित्तदेवयाईउस्सग्गो नेव तत्थ पडिसिद्धो। जणं तं जिणआणा आणारहिअंमि सो निअमो ॥२७॥ तेणं पवयणअट्ठा सम्मट्टिीण देवयाईणं। आराहणमविरुद्धं जह सत्तमनिण्हगढ़ाए ॥२८॥ तत्र यक्षादिनिश्राया अभावे श्रुतक्षेत्रदेवताद्युत्सर्गो नैव प्रतिषिद्धः, तत्र हेतुमाह-"जण्णं"ति यत्-यस्मात् णमितिवाक्यालङ्कारे जिनाज्ञा-तीर्थकरस्याज्ञा, प्रवचने चाज्ञाया एव प्राधान्यं, यतः कारणाद् आज्ञा हि धर्मशरीरे जीवकल्पा, नहि जीवविप्रमुक्तं सुन्दरमपि | शरीरं कनकाद्यास्तरणपरिधापनाह संभवति, तस्माद्धर्मचिकीर्षणा यक्षादिनिश्राराहित्यमिति, स नियम आज्ञारहिते-जिनाज्ञाव्यतिरि ॥१८॥ Iain Education Interno For Personal and Private Use Only www.n yong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy