________________
श्रीप्रवचनपरीक्षा ७ विश्रामे ॥१७॥
SHONEYONGHONG
20:00
द्भण्यते १, इत्येवंरूपेण कुपाक्षिकाभिप्रायेण विरोधः संपद्यते, परं स विरोधः सम्यग्दृशां न स्यादेव यतोऽनेपणीयाहारपरित्यागी क्षुत्परीषहजेता भण्यते, स च जिनाज्ञया भुञ्जानोऽभुंजानो वेत्युभयथापि समान एवेति कुतो विरोधगन्धोऽपि दान्तिक योजना त्वेवं यदि यक्षादयो मह्यं धनादिकं पुत्रादिकं च ददति तदाऽहं जिनोक्तं धर्मं करोमीत्यादिरूपेण यक्षादिनिश्रा भण्यते सा च धर्मार्थिनां न युक्ता, जिनैरननुज्ञातत्वात्, तस्मादनेषणीयाहारकल्पा तथाविधयक्षादिनिश्रा तया रहितः शुद्धाहारग्रहणकल्पं जिनाज्ञया प्रवचनाद्यर्थं सम्यग्दृशां श्रुतदेवताशासनदेव तादीनामाराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भण्यते, अतः कुतो विरोधगन्धोऽपि १, अथ पुनरपि दृष्टान्तो, यथा आज्ञया - अर्हदुपदेशेन भुञ्जानोऽपि साधुरुपवासी भण्यते, यदागम: - " निरखञ्जहारेणं साहूणं निच्चमेव उववासो"त्ति तथा जिनाज्ञया श्रुतदेवताद्याराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भवति, पुनरपि प्रकारान्तरेण दृष्टान्तमाह-यथा निरवद्याहार|ग्रहणेनोपवासी सन्नपि तद्विरोध्याहारत्यागरूपः पुनरप्युपवासमुत्तरगुणवृद्धिहेतवे करोति, यदागमः- “उत्तरगुणवड्डिकए तहविअ उववासमिच्छंति"त्ति तथा यक्षादिनिश्रारहितोऽपि श्रुतदेवतादिसाध्यप्रवचनोत्सप्पर्णादिहेतवे तदाराधनं युक्तमेवेति दृष्टान्तत्रयेण सम्यग्दृशां विरोधाभावो दर्शित इतिगाथार्थः ||२३|| अथ प्रकारान्तरेणापि दृष्टान्तो यथा
अहवा रयहरणाइअउवगरणे धम्मसाहणे संते । मुणिणो अकिंचणा ते भणिआ वीरेण धीरेण ॥ २४ ॥ तह जक्वाइसहायाभावे धम्मेऽवि हुंतु दढचित्ता । आणाए सुअदेवीपमुहाण सहायमिच्छति ||२५|| अथवेति प्राग्वत् रजोहरणादिकोपकरणे - रजोहरणमुखवस्त्रिकाकल्पत्रिकचोलपट्टकमात्रकलक्षणानि सप्त सप्त च पात्रसंबन्धीनीति चतुर्दशोपकरणसमुदाये धर्मसाधने - स्थविरकल्पिकानां चारित्रलक्षणधर्मसाधनहेतौ सत्यपि - विद्यमानेऽपि ते मुनयोऽकिश्चनाः-न
Jain Educational
For Personal and Private Use Only
DZOKOLORO%0{0%G%0%GONGIORGIO
श्रुतदेवतादिस्तुतिसिद्धिः
॥१७॥
www.jainelibrary.org