SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे ॥१७॥ SHONEYONGHONG 20:00 द्भण्यते १, इत्येवंरूपेण कुपाक्षिकाभिप्रायेण विरोधः संपद्यते, परं स विरोधः सम्यग्दृशां न स्यादेव यतोऽनेपणीयाहारपरित्यागी क्षुत्परीषहजेता भण्यते, स च जिनाज्ञया भुञ्जानोऽभुंजानो वेत्युभयथापि समान एवेति कुतो विरोधगन्धोऽपि दान्तिक योजना त्वेवं यदि यक्षादयो मह्यं धनादिकं पुत्रादिकं च ददति तदाऽहं जिनोक्तं धर्मं करोमीत्यादिरूपेण यक्षादिनिश्रा भण्यते सा च धर्मार्थिनां न युक्ता, जिनैरननुज्ञातत्वात्, तस्मादनेषणीयाहारकल्पा तथाविधयक्षादिनिश्रा तया रहितः शुद्धाहारग्रहणकल्पं जिनाज्ञया प्रवचनाद्यर्थं सम्यग्दृशां श्रुतदेवताशासनदेव तादीनामाराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भण्यते, अतः कुतो विरोधगन्धोऽपि १, अथ पुनरपि दृष्टान्तो, यथा आज्ञया - अर्हदुपदेशेन भुञ्जानोऽपि साधुरुपवासी भण्यते, यदागम: - " निरखञ्जहारेणं साहूणं निच्चमेव उववासो"त्ति तथा जिनाज्ञया श्रुतदेवताद्याराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भवति, पुनरपि प्रकारान्तरेण दृष्टान्तमाह-यथा निरवद्याहार|ग्रहणेनोपवासी सन्नपि तद्विरोध्याहारत्यागरूपः पुनरप्युपवासमुत्तरगुणवृद्धिहेतवे करोति, यदागमः- “उत्तरगुणवड्डिकए तहविअ उववासमिच्छंति"त्ति तथा यक्षादिनिश्रारहितोऽपि श्रुतदेवतादिसाध्यप्रवचनोत्सप्पर्णादिहेतवे तदाराधनं युक्तमेवेति दृष्टान्तत्रयेण सम्यग्दृशां विरोधाभावो दर्शित इतिगाथार्थः ||२३|| अथ प्रकारान्तरेणापि दृष्टान्तो यथा अहवा रयहरणाइअउवगरणे धम्मसाहणे संते । मुणिणो अकिंचणा ते भणिआ वीरेण धीरेण ॥ २४ ॥ तह जक्वाइसहायाभावे धम्मेऽवि हुंतु दढचित्ता । आणाए सुअदेवीपमुहाण सहायमिच्छति ||२५|| अथवेति प्राग्वत् रजोहरणादिकोपकरणे - रजोहरणमुखवस्त्रिकाकल्पत्रिकचोलपट्टकमात्रकलक्षणानि सप्त सप्त च पात्रसंबन्धीनीति चतुर्दशोपकरणसमुदाये धर्मसाधने - स्थविरकल्पिकानां चारित्रलक्षणधर्मसाधनहेतौ सत्यपि - विद्यमानेऽपि ते मुनयोऽकिश्चनाः-न Jain Educational For Personal and Private Use Only DZOKOLORO%0{0%G%0%GONGIORGIO श्रुतदेवतादिस्तुतिसिद्धिः ॥१७॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy