________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२१०॥
SNGHS
दिदेवलोकेषु यथासंभवं देवत्वेन देवीत्वेन चानन्तश उत्पद्यमानोऽपि न विमानाधिपतित्वेनापि, किंतु नियतसम्यक्त्वाद्युत्पत्तिस्था| नातिरिक्तेष्वेव स्थानेषु यथासंभवं देवादित्वेनोत्पन्नपूर्व एवेत्याकूतं, अन्यथा चमरेन्द्रादीशानेन्द्रपर्यन्तानामुत्पादशय्यादिस्थानेष्वपि | देवीत्वेन ईशानदेवलोकादिदेवीस्थानेषु देवत्वेन दशलक्षप्रमाणदेवीविमानेषु विमानाधिपतिदेवत्वेनैव चोत्पादप्रसक्त्या जगद्व्यवस्थाभङ्गः स्यात्, तथा सर्वत्रापि वनस्पत्यादित्वेनाप्यनन्तश उत्पादो भणितः सोऽपि यदि सर्वस्थानेषु भण्यते तदा शक्रस्थाने वृक्षोऽप्युत्पद्येत, तथा चाशिक्षितनृत्यमित्र लोकविगोपनादि स्यात्, निर्गुरुनाटकस्य तथा स्वभावाद्, उक्तं - " नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य || १ ||" इत्यादि, ननु यदुक्तं देव्युत्पादशय्यादिस्थाने देवत्वेन | देवोत्पादशय्यादिस्थाने देवीत्वेन इन्द्रस्थाने वृक्षत्वेनोत्पादे जगद्व्यवस्थाभङ्ग इत्यादि तदयुक्तं, यथासंभवमेवोत्पत्तिरस्माकं सम्मता, न पुनर्जगद्व्यवस्थाविलोपेनापीति चेच्चिरं जीव, आयातोऽसि स्वयमेवास्मदुक्तमार्गेण, यतो विमानाधिपतिरिन्द्रोऽन्यो वा सम्यग्दृष्टिरेव स्यात्, न मिथ्यादृष्टिरिति जगत्स्थितिः, यथाऽनन्तशो राजत्वेनोत्पन्नोऽपि न चक्रवर्त्तिबलदेववासुदेवादिपदवीसंयुक्त उत्पन्नः, अत एव मिध्यादृशस्तामलिप्रभृतितापसा अपीन्द्रत्वेनोत्पन्ना इन्द्रतयोत्पत्यमिमुखीभूता वा उत्पत्तिस्थानविशेषमाहात्म्यात्सम्यग्दृष्टय एव जाताः कथं तत्र मिथ्यादृष्टिगन्धवार्त्ताऽपि प्रवचनविदां संभवतीति प्रसङ्गतोऽभिहितं । अथ प्रकृतमुच्यते यत्तु चैत्यशब्देन ज्ञानमिति लुम्पकविकल्पनं तन्महदज्ञानं, “चैत्यं जिनौकस्तद्विम्बं, चैत्यो जिनसभातरुः । उद्देशवृक्षचैत्य" इत्यनेकार्थनाममालायामपि चत्वार एवार्था उक्ताः, तत्र ज्ञानार्थस्यानुक्तत्वात्, यत्तु 'गुणसिलए चेहए' इत्यादौ चैत्यशब्देन यक्षादीनां प्रतिमा वाच्या तदुदेशवृक्षसंबन्धाद्बहुप्रतिमाधर्मसाधर्म्याद्वोपचरितं बोध्यम्, अत एव चैत्यशब्देन यक्षादीनामपि प्रतिमैव भण्यते, न पुनः साक्षाद्य
Jain Education International
For Personal and Private Use Only
0%C0%C3%96
चैत्यशब्दार्थः
॥२१०॥
www.jainelibrary.org