________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥२०८॥
HOLI
DIGOING ONG
अनुखरतरमनालोच्यानुचितवक्तारो, यतः कादाचित्कापावित्र्यभाजः कुलजा अपि सम्यग्दृशः स्त्रियो जिनप्रतिमां न स्पृशन्तीति | भणित्वाऽपि तथाविधापावित्र्यावस्थामापन्नानामस्पृश्योऽपि सम्यग्दग् मातङ्गो जिनप्रतिमां स्पृशतीत्यसमञ्जसं भणन् खगलपादुकामपि न वेत्ति, तथा समवसरणस्थितमर्हन्तमिव जिनप्रतिमामपि स्त्रियो न स्पृशन्तीति जिनदत्तेन निजकुलके भणितमिति खरतर - मतविश्रामे दर्शितम्, एवं च सति कथं मातङ्गस्पर्शः प्रतिमाया युक्तः १, अन्यथा भावजिनेऽपि तथाप्रसङ्गः तेन नित्यचैत्येषु हि | संगमकवदभव्या अपि देवा मदीयमिदमिति बहुमानात् कल्पस्थितिव्यवस्थानुरोधात्तदद्भुतप्रभावाद्वेत्यादि विकल्पितं तदालजालकल्पम्, एवं क्वाप्यनुक्तत्वादश्रुतत्वाच्च तस्मादनादिसिद्धकल्पस्थितिरेव तावदियं यद्विमानाधिपतिर्मिथ्यादृष्टिर्न भवत्येव यच्चोक्तं - "देवहरमि देवा विसयविसमोहिआवि न कयावि" इत्यादि तच्च सम्यग्दृष्टेरेव तथा स्वभावो, न पुनर्मिथ्यादृष्टेरपि यतः - " पंचहिं ठाणेहिं जीवा सुलहबोहियत्ताए कम्मं पकरिंति, तं०-अरहंताणं वण्णं वदमाणे विवक्कतवबंभचेराणं देवाणं वण्णं वदमाणे "त्ति श्रीस्थानाङ्गे । (४२६) अर्हदादिपङ्किव्यवस्थितानां देवानामर्हदादीनामिव वर्णवादो बोधिसुलभताहेतुर्भणितः, तत्र वर्णवादः देवानां 'अहदेवाण य सीलं विसयविसमोहिआवि जिणभवणे । अच्छरसाईहिं समं हासाई जेण न कुणंति ॥ १॥ 'तिरूपः, सच सम्यग्दृशामेव बोध्यः, न पुनर्मिथ्यादृशामपि तेषां वर्णवादे दूरे बोधिसुलभता, प्रत्युत सम्यक्त्वदूषणं यदुक्तं - "शङ्काकाङ्क्षाविचिकित्सामिध्यादृष्टिप्र| शंसनम् । तत्संस्तवश्च पञ्चापि, सम्यक्त्वं दूषयन्त्यमी ॥१॥” इति ननु जिनप्रतिमासु तथाविधाध्यवसायो मिथ्यादृशामप्यनुमोदनाविषयो युक्त इति चेन्मैवं, इमा जिनप्रतिमा अर्हत इवाराध्या मोक्षदात्रीति सम्यम्बुद्धेरविषयत्वात्, तथात्वे च मिथ्यादृष्टित्वासंभवात्, सम्यग्ज्ञानमिथ्याज्ञानयोरेकदै कत्रासमावेशात्, यदागमः - "जस्स णाणा तस्स अण्णाणा णत्थि, जस्स अण्णाणा तस्स णाणा
Jain Educationa International
For Personal and Private Use Only
HO%0%DOINGHS CHOIGHODIG
मिथ्यादृग् न विमानपतिः
॥२०८॥
w.jainelibrary.org