________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२०७॥
MOHONGKONG ONGOONGO
Jain Educationa Interna
वेष्विव तेषु दृष्टेषु यदि कस्यापि सम्यक्त्वमुत्पद्यते, उत्पद्यतां नाम, तथापि मिध्यात्वभावितत्वात्तान्यनायतनमेव निह्नववत्, यदुक्तं"जइविहु सम्मुप्पाओ कस्सवि दट्ठण निण्हवे हुआ । मिच्छत्तहयमईआ तहावि ते वञ्जणिजाउ || १ ||" इति, नन्वनायतनत्वे सति किंजायतां तासाम् १, उच्यते, असेव्यत्वं यदुक्तमावश्यके - " खणमवि न खमं काउं अणाययणसेवणं सुविहिआणं । जग्गंधं होइ वणं तरगंधो मारुओ वाति ॥ १ ॥ त्ति, तथा च प्रयोगः -विवादाध्यासितं परतीर्थिकापरिगृहीतमपि श्वेताम्बर यतिप्रतिष्ठितमप्यव्यङ्ग्यमप्यईद्विम्बं सुविहितानामवन्द्यमनधिकारिपरिगृहीतत्वात्, यदेवं तदेवं यथा मातङ्गपाटकान्तर्गतजैन मातङ्गगृहीतार्हच्चै त्यं, नहि परतीर्थिकापरिगृहीतमपि श्वेताम्बर यतिप्रतिष्ठितमप्यव्यङ्ग्यमपि मातङ्गपरिगृहीतार्हचैत्यं चतुर्मासकादिपर्वखपि कैश्चिदपि मातङ्गव्यतिरिक्तैर्वन्द्यते, अथ मातङ्गैर्वन्द्यमानत्वाद्वन्द्यमेव, न, एवं हि बोटिकादिभिर्वन्द्यमानत्वादन्यतीर्थिकपरिगृहीतार्हचैत्यस्यापि वन्द्यत्वप्रसंगः, सर्वसंगपरित्यागित्वेन च यतीनां प्रतिमापरिग्रहेऽनधिकारित्वमेव, तथा च तत्परिगृहीता अर्हत्प्रतिमा अवन्द्या एवेति सिद्धम्, अत्र च विस्तरः | | प्रद्युम्न्नाचार्य पक्षतक्षक श्री जिन पतिमूरिकृतवादस्थलेभ्योऽवसेय इत्यादिना संगमकोऽपि शक्रसामानिकत्वाद्विमानाधिपतिर्भवि व्यतीति भ्रान्त्या आक्षेपपरिहाराभ्यां काचपित्र्यं विरचितं तदपि निरस्तं बोध्यं, मुख्य विमानाधिपतितया मिथ्यादृष्टेरुत्पत्तेरसंभवात्, तच्चानन्तरमेवागमानुगतयुक्त्या व्यक्तीकृतमिति, किंच-संदेहदोलावल्यां “तथा च प्रयोगो-विवादाध्यासितं परतीर्थिकापरिगृहीतमपीत्याद्यनुमानैर्यन्मातङ्गपरिगृहीतमहच्चैत्यं दृष्टान्तीकृतं तत्किमागमसिद्धं लोकसिद्धं वा?, उभयथापि खरविषाणकल्पं, यतो मातङ्गपाटकेऽचैत्यमित्यागमे नोक्तं, लोकेऽप्यदृश्यमानं, किंच- युक्तयाऽप्यक्षमं, यदि मातङ्गो मिथ्यादृष्टिस्तर्हि अर्हचैत्यपरिग्रहो न संभवति, प्रयोजनाभावात्, सम्यग्दृष्टिचेतर्हि अशुचिलिप्तपादपुरुषवत् मातङ्गोऽपि तदाशातनाभीत्या जिनप्रतिमां न स्पृशति, किंच
For Personal and Private Use Only
D
GOING ONGCOIजक
मिथ्यादृग्
न विमानपतिः
॥२०७॥
www.jainelibrary.org