________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२०५॥
Jain Educatio
HONGKONGHOSHO
'ONGOONGING
IOSONONO%be%e0%ONGS
For Personal and Private Use Only
नामकं भवनं चरमचञ्चाराजधान्या एकदेशरूपमपि भवनत्वेनागमे भणितं प्राक् प्रदर्शितं, एवं यथा चन्द्रसूर्यादीनामग्रमहिषीणां चन्द्रसूर्यादिविमानैकदेश एव निज २ नाम्ना विमानतया भणितः तथा तत्सामानिकानामपि बोध्यम्, अन्यथा ज्योतिष्केन्द्र सामानिकानामपि पृथग्विमानकल्पने ज्योतिष्काणां पञ्चमकारतानियमभङ्गः स्याद्, अत एव "ससिरविगहनखत्ता" इत्यादिप्रवचने शशिप्रमुखशब्दैः शशिप्रमुख विमानवासिनः सर्वेऽपि तत्तन्नामभिरेव गृहीता बोध्याः, किंच- जिनजन्मादिषु सामानिकादीनां पालकविमानेनैवागमनमागमे भणितं न पुनः शेपदेवादीनामिव निजनिजविमानवाहनादिभिरिति एतच्च जम्बूद्वीपप्रज्ञप्तितो बोध्यं, तथा सौधर्मदेवलोकं गतेन चमरेन्द्रेणापि शक्रपरिकर एवाक्रोशविषयीकृतो, न पुनरितरे केऽपि, किंच- सामानिकानां महर्द्धिकत्वात् पृथकू विमानकल्पनं यत्तदप्यसंगतं देवलोकेषु सामानिकापेक्षया विमानानामप्यल्पसंख्याकत्वात् यतः सहस्रारे पद सहस्राणि विमानानां सामानिकास्तु त्रिंशत्सहस्राः, आनतप्राणतयोः समुदितयोश्चत्वारि शतानि विमानानां सामानिकास्तु विंशतिः सहस्राः, आरणाच्युतयोः समुदितयोस्त्रीणि शतानि विमानानां सामानिकास्तु दश सहस्राः, यदागमः - "छच्च सहस्सा सहस्सारे । आणयपाणयकप्पे चत्तारि सया आरणच्चुए तिष्णि सय"त्ति विमानसंख्या, तथा 'चउरासीती बावत्तरी सत्तरी अ सठ्ठीआ । पण्णा चचालीसा तीसा वीसा दस सहस्सा || १||' इति सामानिकसंख्या श्रीजम्बूद्वीप०, यत्तु “सामानि कैर्हस्यमानो, यानकाख्यविमानतः । स शिष्टै कार्णवायुष्को, मेरुचूलां सुरो ययौ ॥ १ ॥ " इति श्रीमहावीरचरित्रे यानक विमानं भणितं तदेतन्नाम्ना शक्र विमानैकदेशो बोध्यः, तत्र च चमरचश्चाराजराजधानीदेशः कालकभवनं दृष्टान्त इति, एवं च सति शक्रसामा निकोऽप्यभव्यः संगमको विमानाधिपतिर्न स्थादेवेति संपन्नं, किंच - मिध्यादृष्टिर्देवत्वेनोत्पद्यमानो विषयादिषु गृद्ध एवोत्पद्यते, तत्र च ' किं मे पुत्रि करणिअं किं मे पच्छा ॥२०५॥
मिथ्याग् न विमानपतिः
www.jainelibrary.org.