________________
श्रीप्रवचनपरीक्षा ८ विश्रामे 1120811
SNO%SONGHOR
H%OO.GHONGI
पडिमा वण्णपमाणेहि निअएहि ||१|| "न्ति इत्याद्युपोद्घातप्रवचनवचनाद्भरतकारितानां जिनप्रतिमानां सिद्धौ तज्जन्यं फलमपि महानुभावमेव सिद्ध्यति, महानुभावपुरुषप्रवृत्तिविषयत्वाद्यनुमेयत्वात्, तदनुमानं यथा-जिनभवनादिनिर्मापण मैहिकपारत्रिकापायपरक|रणपूर्वकाभिमतसंपत्संपादकं बहु वित्तव्ययायासान्यतरसाध्यत्वे सति धर्मबुद्धिपूर्वकमहापुरुषप्रवृत्तिविषयत्वात् तीर्थक्र दुपात्तचारित्रवद्, अत्रार्थे सिद्धान्तोऽपि यथा “तिहिं ठाणेहिं जीवा अप्पा उत्ताए कम्मं पकरेंति, तं० - पाणे अइवाइत्ता भवति मुसं वतित्ता भवति तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिला भेत्ता भवति "त्ति । श्रीस्थानाङ्गे त्रिस्थानके प्रथमोदेशके (१२५) एतद्वच्येकदेशो यथा - तथा च गृहिणं प्रति जिनभवन कारणफलमुक्तम्- 'एतदिह भावयज्ञः सङ्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छिच्या नियमादपवर्गबीज || २ ||" मिति श्रीस्थानाङ्गवृत्तौ, तथा शाश्वताशाश्वतानि तीर्थान्याचार्यादींश्च | प्रत्यभिमुखगमन संपूजनादिना सम्यक्त्वनैर्मल्यमप्युक्तं, तथाहि - तित्थयराणं भगवओ पत्रयण पावयणि अइसइडीणं । अहिगमणनमणद रिसण कित्तणसंपूअणा थुणणा ||१|| जम्माभिसे अनिक्खमणचरणनाणुप्पयाण निव्वाणे । दिअलोअभवणमंदर नंदीसरभोमनगरे || २ || अद्वावयमुञ्जिते गयग्गपयए अ धम्मचक्के अ । पासरहावत्तणयं चमरुप्पायं च वंदामि ||३|| (३३३-२) इतिश्रीआचाराङ्गनिर्युक्तौ, तद्वृत्तिर्यथा “दर्शनभावनार्थमाह- 'तित्थय' गाहा, तीर्थकृतां भगवतां प्रवचनस्य - द्वादशाङ्गस्य गणिपिटकस्य तथा प्रावचनिनाम् - आचार्यादीनां युगप्रधानानां तथाऽतिशयिनाम् - ऋद्धिमतां केवलिमनः पर्यायावधि मच्चतुर्दशपूर्वविदां तथाऽऽमर्षैषध्यादिप्राप्तद्धनां यदभिमुखगमनं गत्वा च नमनं नत्वा च दर्शनं तथा गुणोत्कीर्त्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका | दर्शनभावना, अनया हि दर्शनभावनया नवरं भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किंच - " जम्मामिसेअ " गाहा "अठ्ठावय" गाहा,
Jain Education International
For Personal and Private Use Only
ORONGHO
श्रीजिनभवनादिसिद्धिः
॥ १७९ ॥
www.jainelibrary.org