________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥१७८॥
वा यथा नारीरूपदर्शनात् नारीविषयकं ज्ञानं भवति तथाऽर्हद्विम्बदर्शनादर्हद्विषयकं ज्ञानं भवतीति, किंच-लुम्पकेन यत्स्थापनाजिनं परित्यज्य नामजिनोऽभ्युपगतस्तदत्यन्तमसंगतं यतो नामापेक्षया स्थापनाया विशिष्टफलजनकत्वेनाधिक्याद्, यदागमः"तओ इंदा पं० तं० - नामिंदे १ ठवणिंदे २ दविदे "त्ति स्थानाङ्गे त्रिस्थानकप्रथमोद्देशकादिसूत्रं (११९) एतद्वतिदेशो यथा - ननु | नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाद्रव्यत्वं च समानं वर्त्तते ततश्च क एषां विशेषः १, आह च - "अभिहाणं दव्वत्तं तदत्थसुन्नत्तणं च तुल्लाई । को भाववजिआणं नामाईणं पइविसेसो १ || १ || "त्ति, अत्रोच्यते यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्रामिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययः तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्त्तन्ते फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात् न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति, आह च- "आगारोऽभिप्पाओ बुद्धी किरिआ फलं च पाएण । जह दीसह ठवणिंदे न तहा नामिंद (नामे न ) दविदे || १ || "त्ति, यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रा वित्ययं विशेष इति इतिश्रीस्था० पृ० | यद्वा जिनप्रतिमा जिनवदाराध्या जिनाराधनजन्यैकफलजनकत्वाद्, दृष्टान्तस्तु 'नमो वंभीए' त्ति प्रवचनवचनात्सिद्धं द्रव्यश्रुतं पुस्तकादि, न च जिनाराधनजन्यैकफलजनकत्वमिति हेतुरप्रसिद्धः "हिआए सुहाए खमाए निस्सेसाए आणुगामि अत्ताए भविस्सति" श्रीराजप्रश्नी योङ्गवचनेन सिद्धान्तसिद्धत्वात्, तदभावादिसाध्यसाधक हेत्वन्तराभावाच्च । किंच - " दाणं च माहणाणं | वेआ कासीअ पुच्छ निव्वाणं । कुंडा धूभ जिगहरे कविलो भरहस्स दिखा य || १ || निव्वाणं चिड़गागिइ जिणस्स इक्वाग सेसगाणं तु । सकहा धूभ जिणहरे जायग तेणाहिअग्गिन्ति ॥ | १ || धूभसय भाऊ आणं चउवीसं चेत्र जिणहरे कासी । सब्वजिणाणं
Jain Education International
For Personal and Private Use Only
NGHOTOSROGO
श्रीजिन|भवनादिसिद्धिः
1180411
www.jainelibrary.org