SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥ १७१ ॥ 9%OONGADINGHO SHOKOHONG सुप्रतिष्ठवातकरक चित्ररत्नकरण्डक पुष्पचङ्गेरीयावल्लोमहस्त चङ्गेरी पुष्पपटलकयावल्लो महस्तपटलकसिंहासनच्छत्रचामरतैलसमुद्गकयावदअनसमुद्गक धूपकडुच्छुकहस्तगताः क्रमेण प्रत्येकमभिलाप्याः, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, ततश्च विजयदेवस्य चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवारामिः अग्रमहीषिभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तमिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेव सहसैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वान मन्तरैर्देवैर्देवीभिश्च सार्द्धं संपरिवृत्तः सर्व्वद्ध् यावन्निर्धोपनादितरवेणमिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः, 'सव्वजुईए सव्वबलेणं सव्वसमुदयणं सव्वविभूईए सव्वसंभ्रमेणं सव्वगंधपुप्फमल्लालंकारेणं सव्वतुडिअसद्दनिनाएणं महया इडीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिअजमगसमगपडुप्पवाइअरवेणं संखपण| व पडहभे रिझल्लरिखर मुहिहुडुकदुंदुहिनिग्घोसनाइयरवेणं' अस्य व्याख्या प्राग्वत्, यत्रैव सिद्धायतनं तत्रोपागच्छतीति, उपागत्य | सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति, प्रविश्यालो के जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य जिनप्रतिमाः प्रमार्जयति, प्रमार्ण्य दिव्ययोदकधारया रूपयित्वा सरसेनाद्रेण गोशीर्षचन्दनेन गात्राण्यनुलिम्पयति, अनुलिप्याहतानि - अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'निअंसेइ' त्ति परिधापयति, परिधाप्य अय्यैः - अपरिभुक्तैर्वरैः - प्रधानैर्गन्धैर्माल्यैश्चार्चयति, एतदेव सविस्तर मुपदर्शयतिपुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणं आभरणारोपणं करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छे :स्वच्छैः श्लक्ष्णैर्मसृणै रजतमयैः, अच्छो रसो येषां ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इतिभावः, ते च ते तन्दुलाच अच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वाद्यथा वयरामया नेमा इत्यादौ, तैरष्टावष्टौ खस्तिकादीनि मङ्गलका Jain Education International For Personal and Private Use Only DIGHONGKONGHORONGHOGIose श्री जिनप्रतिमापूजादिसिद्धि : ॥ १७२॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy