________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
1129011
CGOING HONGKONGHOTOSHO
च पुस्तकरत्नमुत्सङ्गादावितिगम्यते मुञ्चति, मुक्त्वा विघाटयति, विधाट्य अनुप्रवाचयति' अनु-परिपाट्य । प्रकर्षेण - विशिष्टार्थावगमरूपेण वाचयति, वाचयित्वा धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति, कर्तुमभिलपतीतिभावो, व्यवसायसभायाः शुभाध्यवसायनिबन्धनत्वात्, क्षेत्रादेरपि कर्मक्षयोपशमादिहेतुत्वाद्, उक्तं च- "उदयखयखओवसमोवसमावि जयं च कम्मुणो भणिआ । दव्वं खित्तं कालं भवं च भावं च संपप्पे ||१|| "ति, धार्मिकं च व्यवसायं व्यवसाय पुस्तकरत्नं प्रतिनिक्षिपति, प्रतिनिक्षिप्य सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्गच्छति, विनिर्गत्य यत्रैव व्यवसायसभायाः एव पूर्वा नन्दा पुष्करणी तत्रैवोपागच्छति, उपागत्य नन्दापुष्करणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति - मध्ये प्रविशतीतिभावः, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मत्तकरिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति, गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावच्छतपत्रसहस्रपत्राणि तानि गृह्णाति, गृहीत्वा नन्दातः पुष्करणीतः प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधारितवान् गमनाय 'तए ण' मित्यादि ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतस्रः सपरिवाराः अग्रमहीष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानी काधिपतयः षोडश आत्मरक्षकदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाच देव्यश्च अध्येकका उत्पलहस्तगताः अप्येकका पद्महस्तगताः अप्येकका कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्र सहस्रपत्रशत सहस्रपत्र हस्तगताः क्रमेण प्रत्येकं वाच्याः विजयं देवं पृष्ठतः २ परिपाट्येतिभावः अनुगच्छन्ति, 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य बहव 1120011 आभियोग्या देवा देव्यश्च अप्येककाः चन्दनकलशहस्तगता अप्येकका भृङ्गारहस्तगताः अप्येकका आदर्शहस्तगता एवं स्थालीपात्र
For Personal and Private Use Only
Jain Educationa International
GHORSHOTTOOG
श्रीजिनप्र तिमापूजादिसिद्धिः
www.jainelibrary.org