________________
श्रीप्रवचन
परीक्षा ७ विश्रामे ॥१५॥
KOIGROUGHOOOOOOOROTara
युक्तिमदिति विचार्य, किंच-अथवा मरिहरिभद्रः-श्रीहरिभद्रसूरिः भद्रबाहुप्रमुखाः-चकारो गम्यः श्रीभद्रबाहुप्रभृतयश्च अबुधाः-15
श्रुतदेवताअपण्डिताः त्वदभिप्रायविचारशून्याः आसनिति क्रियाध्याहारः, यद्-यस्मात्तैस्तद्भणितं-श्रुतदेवताचाराधनं भणितं, तथाहि-श्री
दिस्तुति हरिभद्रमरिणा तु 'संसारदावानलदाहनीरं० १ भावाव० २ बोधा० ३ आमूलालो० ४ इतिस्तुतिः कृता, ननु श्रीहरिभद्रस्य कृति|रियं कथं निर्णीतिरितिचेदुच्यते, विरहशब्दलाच्छितत्वाद् , यावती कृतिविरहशब्दलाच्छिता तावती श्रीहरिभद्रसूरेरेव बोध्या, पंचाशकवृत्तौ तथैव भणितत्वात , श्रीभद्रबाहवो यथा-"दुन्नि अ हुंति चरित्ते दंसणणाणे अ इक इको अ। सुअखित्तदेवयाए थुइ अंते पंचमंगलयं ॥२॥ इतिश्रीआवश्यकनियुक्ती,तथा तत्रैव "चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए उ । पखिअ सिजसुरीए करिति चउमासिएऽवेगे ॥२॥ इतिश्रीआ० (२३६ भा०) एवमन्येऽपि शोभनमुनिप्रभृतयः स्तुतीः कुर्वाणाः शासनदेवतादीनां स्तुति कृत-I वन्तः, श्रीभद्रबाहुभिस्तु श्रुतदेवतादिस्तुतिकरणमच्छिन्नपरम्परागतमिति दर्शितमित्यत्र त्वदुद्भावितभगवतीसम्मत्या सह कथं संगति रिति पृष्टऽन्यतरस्य त्यागे स्वीकारे वोभयथाऽपि निजगलपाशकल्पत्रिस्तुतिकविकल्पः सिद्धा, नचायं दोषो भवतामप्यापद्यते | इति वाच्यं, वक्ष्यमाणगत्याऽस्माकं तद्दोषगन्धस्याप्यभावादिति गाथार्थः ॥२०॥ अथ श्रुतदेवता वराकीति वक्ता त्रिस्तुतिकः कीदृशोऽवगन्तव्य इत्याह
जीइ सहायत्तणओ पहावगा पवयणस्स संजाया। तंपि भणेइ वराई वरायमुहरीवि उम्मत्तो॥२१॥
यस्याः श्रुतदेवतायाः सहाय्यत्वात्-साहाय्यात् प्रवचनस्य-जिनशासनस्य प्रभावका:-श्रीहेमाचार्यादयः संजाता:-सम्यम् | सर्वजनविख्याता आसन् , तामपि श्रुतदेवतां वराकी वराकमुखर्यपि त्रिस्तुतिका उन्मत्तो-चातादिरोगपरायत्तस्तथाविधदेववायत्तो
॥१५॥
OGROIROHOROUGHOUGHOUG
For Pesca
Pives