SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८विश्रामे ॥१६३॥ Gooान. |कुर्वन्ति, अथ तथैव तस्य जीतकल्प इतिचेत्सत्यं, सिद्धा तर्हि तथाविधसाधूनां चैत्यनमस्कृतिजीतकल्पत्वेन यथा तथा तदृष्टान्ते चारणानान्येषामपि साधूनां जिनप्रतिमानमस्कृतिः प्रत्यहं जीतकल्प इति चारित्राराधनवत् तदाराधनमपि मोक्षाङ्गं संपन्नम् , अथ नन्दी धिकार: श्वरादिचैत्यनमस्कृत्यैव तल्लन्धिपरीक्षेति द्वितीयो विकल्पस्तर्हि अनवरतं षष्ठाष्टमादितपसापि या लब्धिः समुत्पन्ना साऽपि नन्दी-10 श्वरादिगतजिनप्रतिमावन्दनसामर्थ्यजनिका सिद्धा, तत्सिद्धौ च चारित्रावाप्तिवत्तत्सामर्थ्यावाप्तिरपि पुण्यप्रकृतिजन्या तजनिका चेति संपन्नं लुम्पकमतं निराश्रयमिति । किंच-लुम्पकमतामिप्रायेण विद्याचारणादयः समुत्पन्नलब्धयो नन्दीश्वरादौ चैत्यानि नमस्कुर्वन्ति, आगताश्चातत्यान्यप्यशाश्वतानि चैत्यानि नमस्कुर्वन्ति, पश्चाच्चालोच्य चारित्राराधका भवन्ति, न पुनरन्यथापि, अन्यथा चैत्यनमस्कृतेरसंभवात् , यतो न चैत्यनमस्कृत्यर्थ केनापि बलवत्ता प्रेरिता न वा लजया तत्परित्यागाशक्ताश्च, किंतु निजश्रद्धयैवेति, यद्यपि 'किंच लुम्पकमताभिप्रायेणे'त्याद्यनतरोक्तं लुम्पकस्य गलपादुकाकल्पमपि नासाकमभीष्टम् , अनागमिकत्वात् , तथा| विधपरंपरानागतत्वात्तथाभिप्रायस्य तथापि तत्रैवं पृष्टव्यं-भो लुम्पक ! एवंविधवाग्रचना तत् स्वतः सिद्धा कुतश्चिच्छिक्षिता वा?, तत्र द्वितीयविकल्पस्त्वसंभव्येवाच्छिन्नपरम्परागतगुर्वभावात् , किंतु द्वितीयो (प्रथमो) वक्तव्यः, सच संमृर्छिमद१रवाक्पद्धतिरिव संज्ञिना विचारणानुपयोगीत्यलं विस्तरेण। अथ साध्व्युदाहरणं तु साधूदाहरणान्तर्भूतमेव बोध्यं, तदनुयायित्वात् , तथा भृगुकच्छे | द्वीपान्तरागतेन केनचिन्मिथ्यादृशा वणिजा रूपवतीः साधीनिरीक्ष्य तदपहरणाय कपटश्रावको जातः, पश्चात् ताः विश्वास्य चलनावसरे वस्त्रादिनिमित्तं निमत्रिताः साध्व्यः, पण्यभृतपोतपार्श्वे समानीयोक्तवान्-पोतमध्ये जिनप्रतिमाः सन्ति ताःनमस्कुरुत, साव्यश्च सरलाभिप्रायत्वात् पोतमध्ये चैत्यनमस्कृत्यर्थमारूढाः, तेन च पोतं जलमध्ये प्रवाह्य ता द्वीपान्तरं नीता इत्यादि निशीथभाष्य- ||१.६३1 GOO.Gk lain Education Intern For Personal and Private Use Only www.n yong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy