________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥१६२॥
ORIGH
लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीति आगमनं द्वाभ्यां गमनं त्वेकेनैवेति इति भग० टीका, न चात्र चैत्यशब्देन जिनप्रतिमा न व्याख्याताऽतः कथं तन्निर्णय इति शङ्कनीयं, 'ग्रन्थस्य ग्रन्थान्तरं टीके' तिवचनादन्यत्र बहुषु स्थानेषु तथाव्याख्यानात्, किंचचैत्यशब्देन लुम्पक विकल्पितसाध्याद्यर्थानभिधायकत्वेन जिनमतिमाभिधायकत्वेन च सूत्रपदैरेव दर्शितत्वात् नात्र शङ्कालेशोऽपीति, अत्र चालोचना लब्ध्युपजीवनहेतुका भणिता, न पुनर्जिन प्रतिमावन्दनादिहेतुका, साऽप्यालोचनाऽल्पविराधनाजन्या मिथ्यादुष्कृतमात्ररूपा, न पुनर्गुरुसमक्षतपः प्रतिपत्तिरूपा, अन्यथा ऊर्ध्वलोकसमुद्रादौ सिद्धिगमनासंभवेन "चउरुडुलोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव । सयं च अड्डत्तर तिरिअलोए, समएण एगेण य सिज्झई धुवं ॥ १ ॥ (१४२७ ) इतिश्री उत्तराध्ययनाद्यागमबाधा स्यात्, तत्र च सिद्धिगमनं लब्ध्युपजीवनेन चैत्यादिनमस्कृत्यर्थं गतानां गच्छतां वा साधूनामेव स्यात् न च प्रयोजनान्तरमेव किंचित्कल्पनीयं, कार्यात्कारणानुमानाचैत्यादिनमस्कृतिव्यतिरिक्तं किमपि कार्यं कृतं नास्ति, तेन तदर्थमेव लब्धिमुपजीव्य गमनं बोध्यं किंच- प्रयोजनान्तरकल्पनायामपि यदि चैत्यनमस्कृतिः साधूनामकल्प्या सावद्या वा स्यात्तर्हि तत्र गतानामपि साधूनां चैत्यनमस्कृतेरसंभवात् नहि प्रयोजनान्तरगतोऽपि साधुरकल्पयसावद्यानुष्ठानपरो भवेत्, अतिप्रसङ्गात्, लुम्पकस्यापि तथा कर्त्त - व्यतापत्तेश्च, एतेन तत्र चैत्यवन्दनाप्रभवपातकस्यालोचनं भणितमिति कुवचनं ब्रुवाण एव लुम्पको निरस्तो बोध्यः, तत्र तद्विकल्पितवचनावकाशस्यासंभवात्, चैत्य परिपाट्यर्थमेव तद्गमनस्योपलभ्यमानत्वात् ननु लब्धौ समुत्पन्नायां तलब्धिपरीक्षानिमित्त मेव नन्दीश्वरादौ गमनं जङ्घाचारणविद्याचारणानां न पुनः केवलं चैत्यवन्दनार्थमेव तत्र गमनमितिचेद हो भ्रान्तत्वं लुम्पकस्य, यतः तत्र गमनेन लब्धिपरीक्षा उत चैत्यनमस्कृत्या वा ?, आद्ये गत्वैवायान्ति किमर्थं तवाभिप्रायेण पापहेतुमपि चैत्यनमस्कृतिमपि
Jain Education International
For Personal and Private Use Only
SHOSHO
चारणाधिकारः
॥१६२॥
www.jainelibrary.org