SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ।।१५८।। SHOHD SONGKOODIGOING O तथा " दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा निग्गंथीण वा पञ्चावित्तए - पाईणं चेव उदीणं चेत्र "त्ति श्रीस्थानाङ्गे, एतदूतिदेशो यथा - 'दो दिसाउ' इत्यादि, द्वे दिशौ -काष्ठे अभिगृह्य अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः कल्पते - युज्यते निर्गता ग्रन्थात्धनादेरिति निर्ग्रन्थाः साधवस्तेषां निर्ग्रन्थ्यः - साध्य्यस्तासां प्रव्राजयितुं - रजोहरणादिदानेन, प्राचीनां प्राचीं पूर्णमित्यर्थः उदीचीनाम् - उदीचीमुत्तरामित्यर्थः, उक्तं च- "पुव्वामुहो व उत्तरमुहो व देखा ऽहवा पडिच्छेखा । जीए जिणादओ वा हवेअ जिणचेहआई व||१||"त्ति, अत्र यस्यां दिशि जिनचैत्यानि भवन्ति सा दिग् प्रव्राजनादिधर्मानुष्ठानायोचिता भणिता, तथा 'पंचहिं ठाणेहिं जीवा सुलहबोधित्ताए कम्मं पकरेंति, तं० - अरहंताणं वण्णं वदमाणे १ अरहंतपण्णत्तस्स धम्मस्स व० २ आयरिअउवज्झायाणं वण्णं ० ३ चाउव्वण्णस्स संघस्स व० ४ विविक्कतवबंभचेराणं देवाणं व०५ इतिश्री स्थानाङ्गे पञ्चमस्थानके द्वितीयोदेश के (४२६) एतद्वृत्तिलेशो यथा - चतुर्वर्णश्रमणसङ्घवर्णो यथा 'एयंमि पूइयंमि नत्थि तयं जं न पूइयं होति । भुवणेऽवि पूयणिजो न पुणो संघाओ जं अण्णो || १ || 'ति देववर्णवादो यथा - "देवाण अहो सीलं विसयविसमोहिआवि जिगभवणे । अच्छरसाहिंपि समं हासाई जेण न करिति ॥ १॥ 'त्ति, अत्र चतुर्वर्णश्रमणसङ्घस्य वर्णवादस्तावदुत्सूत्र भाषिमात्रस्यापि न स्यात्, तस्य तीर्थप्रतिकूलमार्गप्ररूपकत्वेन तीर्थप्रतिपक्षभूतत्वात् तीर्थस्यावर्णवादित्वमेवेति प्रागुक्तमपि प्रसङ्गतो भणितं बोध्यं देववर्णवादस्तु चतुर्णां श्रमणादीनां सम्मतमुत्र जिनप्रतिमानामाशात नापरित्यागादिगुणानुमोदनैव बोधिसुलभता हेतुर्दर्शिता तर्हि साक्षात्तदाराधनं तु बोधिसुलभता हेतुर्भवत्येवेति बोध्यं, तथा " तिहिं ठाणेहिं जीवा सुहदीहाउअत्ताए कम्मं पकरेंति, तं० णो पाणे अइवाइत्ता भवति १ णो मुसं वइत्ता भवति २ तहारूवं समणं वा माहणं वा वंदित्ता नर्मसित्ता सकारिता सम्माणित्ता कल्लाणं मंगलं देवयं चेइअं पज्जुवासेचा मणुण्णेणं पीइकरेणं अस Jain Education International For Personal and Private Use Only GOINGH मूत्रैः प्रतिमासिद्धिः 1. १५८॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy