________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१५४॥
06*0*0*9%C0%C0%COO
मप्यश्रद्धानमेवागमे भणितं यदुक्तं - "पयमकखरंपीत्यादि" प्रागेवेति, तृतीयव्याख्यान भेदविधेर्दिग्दर्शनं ३ । अथोक्तप्रकारेण प्रत्रचनसंबन्धिपदमात्रस्यापि व्याख्याने प्रतिमाप्रासादप्रतिष्ठादीनां तद्विधायकादीनां च सिद्धेऽपि कालानुभावान्मुग्धजनप्रत्यायनार्थं सिद्धान्तोक्तसम्मति दिग्दर्शनं यथा-तत्र प्रथमं श्रावकविधावाह - "समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता नो खलु मे भंते! कप्पति अञ्जप्पभिई अण्णउत्थिए वा अण्णउत्थिअदेवयाणि वा अण्णउत्थि अपरिग्गहिआणि चेइआणि वा वंदित्तए वा नमंसित्तए वा पुव्वि अणालित्तएण आलवित्तए वा संलवित्तए वा तेसिं असणं वा ४ दाउं वा, नन्नत्थ रायामिओगेण गणाभिगेण बलाभिओगेण देवयामिओगेण गुरुनिग्गहेण वित्तिकंतारेण, कप्पति मे समणे निग्गंथे फारएणं एसणिजेणं असणपाणखाइमसाइमेण वत्थपडिग्गहकंबलपायपुंछणेण पाडिहारि अपीढफलगसिजसंथारेण ओसह मेसजेण पडिला भेमाणस्स विहरित्तएत्तिकट्टु, इमं एवं अभिग्ग अभिगिण्हामि " त्ति श्रीउपासकदशाङ्गे, एतद्वच्येकदेशो यथा 'नो खल्त्रि' त्यादि, नो खलु मम भदन्त ! - भगवन् ! कल्पते-युज्यते 'अद्य प्रभृति' इतः - सम्यक्त्वप्रतिपत्ति दिनादारभ्य निरतिचारसम्यक्त्वपरिपालनार्थं, तद्यतनामाश्रित्य " अष्णउत्थिए व "त्ति जैनयूथादन्यद् यूथं - सङ्घांतरं तीर्थान्तरमित्यर्थः, तदस्ति येषां तेऽन्ययूथिकाः - चरकादिकुतीर्थिकास्तान् अन्ययूथिकानां दैवतानि वा- हरिहरादीनि अन्ययूथिकैः परिगृहीतानि वा चैत्यानि - अर्हत्प्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा - अभिवादनं कर्तुं नमस्यितुं वा - प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्त्तनं कर्तुं तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व - प्रथमनामलप्तेन सताऽन्यतीर्थिकैस्तानेवालप्तुं - सकृत्संभाषितुं वा संलपितुं - पुनः पुनः संलापं कर्तुं वा, यतस्ते तप्ततररायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात्, तथाऽऽला
Jain Education International
For Personal and Private Use Only
NYOOO
HONG
सूत्रानुसारेण प्रतिमादिसिद्धिः
॥१५४॥
www.jainelibrary.org.