________________
श्रीप्रवचन
परीक्षा ८ विश्रामे
॥१५२॥
SINGHDI SONGHOSHOHOGY SG
रीतस्तु नीचैर्गोत्रं बध्नाति ७ जिनपूजादिविघ्नकरो हिंसादितत्परोऽन्तरायकर्म बनाति ८ । यदागमः - ' दुविहो अ होइ मोहो' इत्यादिनिर्युक्तिव्याख्याने मोहनीयं कर्म द्विधा भवति - दर्शन मोहनीयं चारित्रमोहनीयं चेति, बन्धहेतो द्वैविध्यात्, तथाहि - अर्हत्सिद्धचैत्यतपः श्रुतगुरुसाधुसंघप्रत्यनीकतया दर्शनमोहनीयं कर्म बनाति येन चासावनन्त संसारसमुद्रान्तः पात्येवावतिष्ठते" इत्यादि श्रीआचाराङ्गलोकविजयाख्याध्ययनटीकायां तथा तत्रैव पत्रद्वयान्तरे - "पडिणी अमंतराओघात तप्पओस निण्हवणे । आवरणदुगं भूओ बंधर अच्चासणाए अ || १ || भूआणुकंपए वयजोगजुओ खंतिदाणगुरुभत्तो । बंधइ भूओ सायं विचरीए बंधइ इअरं ||२|| अरहंत सिद्ध वेइ अतवसु अगुरु संघसाहुपडिणीओ । बंधड़ दंसणमोहं अनंतसंसारिणो जेण ||३||" इत्यादि यावत् " पाणवहातीसुरतो जिणपूआमोक्ख मग्गविग्धकरो। अजेति अंतरायं न लहति जेणिच्छिअं लाहं ||११|| इत्यादि श्रीआचा० टीकायां लोकवि०, अत्र दर्शनमोहनीयान्तरायकर्मबन्धकारणं जिनप्रतिमानामाशातनादिकं भणितं, तत्परिजिहीर्षुणा तावदवश्यं जिनप्रतिमा आराध्यैवेति । यद्वा कर्मबन्धहेतवो मिथ्यात्वादयः सप्तपंचाशत् ते चेमे - अभिगृहीतानभिगृहीताभिनिवेशसंशयाना भोगलक्षणानि पञ्च मिथ्यात्वानि पञ्चेन्द्रियमनसामनियमः षट्ायवधश्चेति द्वादशाविरतयः, अनन्तानुबन्ध्यादयः पोडश कषायाः, हास्यादयो नव नोकषाया इति पञ्चविंशतिः सामान्यतः कपायाः, सत्यादयश्चत्वारो मनोयोगा वाग्योगाच औदारिकवैक्रियाहारकयोगाः समिश्राः षट् सप्तमस्तु कार्मण इति पञ्चदश योगाश्चेति सर्व्वेऽपि समुदिताः सप्तपंचाशत्संख्याकाः, तेष्वशुभतरक्लिष्टकर्मबन्धकारणं पञ्चधापि मिथ्यात्वं, तत्राप्यमिनिवेशमिथ्यात्वं हालाहल विषकल्पं नियमादनन्तसंसारपरिभ्रमणहेतुः, तच्च समग्रमपि जैनप्रवचनं श्रद्दधतस्तद्गतस्यैकस्याप्यक्षरस्यापलापे तदश्रद्धाने वा स्यात्, यदुक्तं - "पयमक्खरंपि इकंपि जं न रोएइ सुत्तनिद्दिवं । सेसं रोअंतोबिहु मिच्छद्दिट्टी जमा
Jain Educationa International
For Personal and Private Use Only
GOIGIONIGH
पदमात्रव्याख्याने
प्रतिमासिद्धिः
॥१५२॥
www.jainelibrary.org