________________
DIHDINGHOSHO
परीक्षा ८ विश्रामे ॥१५॥
श्रीप्रवचन- याध्ययने, अत्र नियुक्त्यादि तीर्थकरभाषितं भणितं, किं च- अर्हन्ति शक्रादिकृतां पूजामित्यर्हन्तः इतिशब्दव्युत्पत्त्यापि अर्हतां पूजा सिद्ध्यन्ती स्थापनार्हतां पूजामादायैव सिद्ध्यति, नान्यथेति, एतच्च लुम्पकस्योपदेशस्वरूपविचारावसरे " सव्वे पाणा भूआ जीवा सत्ता य नेव हंतव्वे' त्यादिगाथा व्याख्यायां दर्शितं बोध्यमिति नियुक्तिसंयुक्तव्याख्यानदिग्दर्शनेन व्याख्यानस्य द्वितीयभेदो दर्शितः, अथ 'तइओ अ निखसेसो त्ति तृतीय भेद दिग्दर्शनं, यथा नमस्कारनिर्युक्तौ " अट्टविहंपि अ कम्मं अरिभूअं होइ सव्व जीवाणं । तं कम्मं अरिहंता अरिहंता तेण बुच्चंती ॥ १ ॥ ( ९२०) त्यत्र अरीन् नन्तीति अरिहन्तार इत्युक्ते नार्हतां नमस्कारसिद्धिः, किंतु | येऽरिहन्तारो म्लेच्छराजादयोऽपि तेषामेव सिध्यतीत्यतिप्रसक्तिस्तदर्थमरयो विशेष्याः, केऽरयः १-कर्मारयः, ते चाष्टौ ज्ञानावरणीयादीनि कर्माणि तेषामुत्तरप्रकृतयोऽष्टपञ्चाशदुत्तरशतं वक्तव्याः, तत्र च प्रसङ्गतस्तद्बन्धकारणानि वक्तव्यानि तानि चैवं-मत्यादिज्ञानस्य साध्वादीनां ज्ञानिनां पुस्तकादेर्ज्ञानसाधनस्य च प्रत्यनीकता निह्नवतोपघातात्याशातनादिभिर्ज्ञानावरणीयदर्शनावरणीयलक्षणं मूलप्रकृतिद्विकं बध्नाति २, गुरुभक्तिक्षान्तिकरुणात्रतयोगकपायविजयादिना सातवेदनीयं बनाति, एतद्विपरीतस्तु असातवेदनीयमिति ३ भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य च ज्ञानदर्शनचारित्रलक्षणस्यापलपनमित्यादिभिर्देवद्रव्यविनाशाहत्साधुचैत्यसंघादिप्रत्यनीकतया च दर्शनमोहनीयं कर्म बनाति, तीव्र कषायनोकपायाद्युदयाच्च चारित्रमोहनीयमिति ४ महारम्भादियुक्तो व्रतरहितो नरकायुर्वभाति, उन्मार्गदेशनामार्गनाशनागूढहृदयमाया कुशीलतासशल्यतादिभिस्तिर्यगायुर्वभाति, प्रकृत्याऽल्पकपायदानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुर्बध्नाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिभिर्देवायुर्वभाति ५ माया गौरवादिरहितः शुभनाम, तद्विपरीतस्त्वशुभनामकर्म बनाति ६ गुणप्रेक्षी मायारहितोऽध्ययनाध्यापनादिभिरुचैर्गोत्रं तद्विप
GHONDONGHO
Jain Educationa International
For Personal and Private Use Only
DGK
OSITION
पदमात्रव्याख्याने प्रतिमा
सिद्धिः
॥१५९॥
www.jainelibrary.org