________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥१४४॥
लक्षणो निरवशेषः कार्यः, एषः - उक्तलक्षणः विधानं विधिः - प्रकार इत्यर्थः भवति, व १ - सूत्रस्य निजेनाभिधेयेन सार्द्धमनुकूलों योगोऽनुयोग :- सूत्रान्वाख्यानं तत्र, व्याख्याविषये इत्यर्थः ननु परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकारास्तदेतत्कथमिति, उच्यते, उक्तानामनुयोगप्रकाराणामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारं श्रवणं कार्यं तेन न कचिद्दोषः, अथवा कश्चि| न्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं न पुनरेष एव सर्वत्र श्रवणविधिः, उद्घटितज्ञ विनेयानां सकृच्छ्रवणत एवाशेषग्रहणदर्शनादि" त्यादि श्रीआव० वृ०, न चैवमनुयोगद्वारोक्तविधिना सह भगवत्याद्युक्तप्रकारत्रयस्य कश्चिद्विशेषः शङ्कनीयः, उभयत्रापि तौल्यात्, तथाहि - उपक्रमनयलक्षणं द्वारद्वयं तूपोद्घातनिर्युक्तावन्तर्भवति, निक्षेपस्य तु ओघनिष्पन्ननामनिष्पन्नसूत्रालापकनिष्पन्नलक्षणायां नियुक्तावन्तर्भावः, निर्युक्तयस्तु सर्वा अपि द्वितीयव्याख्यानप्रकरणे भणिताऽतो द्वितीयभेद एवोपक्रमनिक्षेपनयरूपाणि त्रीण्यपि द्वाराणि संक्रान्तानि, अनुगमोऽपि कथंचित्रिष्वपि भेदेष्वन्तर्भूतोऽवगन्तव्य इत्युभयत्रापि व्याख्यान विधेरभेद एव बोध्यः, एवं च सति सूत्रस्य सूत्रगतपदादेरपि च व्याख्यानकरणे निक्षेपोपोद्घातसूत्रस्पर्शिकनिर्युक्तयोऽवश्यं वक्तव्याः, तासामपि सूत्रव्याख्यानरूपत्वाद्, यदागम:- "सुतं पडुच्च तओ पडिणीए - सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए 'ति श्रीस्थानाङ्गादौ (२०८ । १२-३३८) अत्रार्थप्रत्यनीको निर्युक्त्यादिप्रत्यनीको भण्यते, निर्युक्तीनामप्यनुयोगो भणितः, यदागमः- “से किं तं अणुगमे १, २ दुविहे पं० तं०सुत्ताणुगमे निज्जुत्तिअणुगमे'ति, तेन निर्युक्तीनां स्वव्याख्येयमुत्रापेक्षयाऽर्थत्वं स्वव्याख्यानापेक्षया च सूत्रत्वमिति सूत्रार्थोभयस्वभावत्वं बोध्यं, निर्युक्तेरप्यनुगमो निर्युक्तिभाग्यचूर्ण्यादिरूपोऽवगन्तव्यः, न चैवं निर्युक्तेरपि निर्युक्त्यभ्युपगमेऽनवस्येति शङ्कनीयं, यतो यथा प्रदीपः परं प्रकाशयन्नेव स्वात्मानमपि प्रक्राशयति तथा उपोद्घात निर्युक्तिरप्यन्येषां व्याख्यानभूता सती खस्या अपि व्याख्यान
Jain Educationa International
For Personal and Private Use Only
पदमात्रव्याख्याने प्रतिमा
सिद्धिः
॥१४४॥
www.jainelibrary.org.