________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३८॥
DONGHOTOONSORSHOR
जइतित्थयरा अण्णो गणहरपयठावगोऽवि तिपईए । ता पुत्थेणं तित्थं ठाविजा साहुपमुहंपि ॥ १३८ ॥ यदि त्रिपद्या 'उपञ्जए वा विगए वा धुए वे 'तिपदत्रयात्मिकया तीर्थकरादन्योऽप्यस्मादृशोऽपि गणधरपदस्थापकोऽपि भवेत् 'ता' तर्हि पुस्तकेन गुरुनिरपेक्ष केवल पुस्तकमादाय साधुप्रमुखमपि तीर्थं स्थापयेत्, यतो यया त्रिपद्या भगवता श्रीमहावीरेण गणधरपदस्थापना कृता सैव त्रिपदी संप्रत्यभ्यस्ति, तस्मात्तथाविधदायक ग्राहक पुरुषविशेषमासाद्यैव त्रिपदीवत् सिद्धान्तोऽपि फलवान्, नान्यथेतिगाथार्थः || १३८।। अथोपसंहारमाह
तेणं जं जहकारणमणाइसिद्धं तहेव तं णेअं । अन्नह इत्थीवेसो पुरिसोवि धरिज श्रीगन्भं ॥ १३९ ॥ येन कारणेन पुस्तकातीर्थं न प्रवर्त्तेत तेन कारणेन यत्कारणं यथा येन प्रकारेणानादिसिद्धं वर्त्तते तत्कारणं तथैव तेनैव प्रकारेण ज्ञेयं, न पुनरन्यथाऽपि कार्यकारणभावयोरनैयत्यापत्तेः, न हि वह्नि विना धूमोत्पत्तिः संभवति, व्यतिरेकमाह- 'अन्न'ति अन्यथा - कार्यकारणभावयोरनैयत्ये स्त्रीवेषः - स्त्रीसंबन्धी वेषो नेपथ्यं यस्य स तथा पुरुषोऽपि स्त्रीगर्भ धरेत्, स्त्रियामिव गर्भः स्त्रीगर्भस्तं यद्वा स्त्रियाः गर्भः स्त्रीगर्भस्तं, स्त्रीपदमुपलक्षणपरं तेनापत्यमात्रसूचकम्, अयं भावः - स्त्रीवेषधारी पुरुषोऽपि उपलक्षणाद् पुरुपवेषधरो वेपरहितोऽपरोऽपि (स्तम्भकुम्भादिर्वा ) यदि गर्भाधानहेतुः स्यात्तर्हि पुस्तकमात्र मालोक्य साधुवेपधारी आत्मनोऽपरेषां च धर्मोपदेशद्वारा धर्महेतुः साधुः स्यात्, न चैवं संभवति, तस्मात् कुतस्तीर्थ वार्त्ताऽपीति गाथार्थः ॥ १३९ ॥ अथ तीर्थस्वरूपमाहतित्थं खलु तित्थयरा अच्छिन्नं जाव तस्स तित्थठिई । उच्छिन्नम समत्थो नन्नो संधेउ सव्वण्णू ॥ १.४० || तीर्थं तीर्थकरात् खलुखधारणे तीर्थकरादेव भवतीतिगम्यं, ततः प्रवृत्तं सद् अच्छिन्नं कियत्कालं?, यावत्तस्य - तीर्थकरस्य.
Jain Educationa International
For Personal and Private Use Only
DHONGKO
SONG ON
पुस्तकतीर्थाभावः
| ॥१३८॥ .
www.jainelibrary.org