________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३७॥
Jain Educationa
SIGHO
OSHONSOO
दातव्या, यदागमः - "तओ अवायणिजा पं० तं० अविणीए विगईपडिबद्धे अविउसवितपाहुडे । ततो कप्पंति वायत्तते विणीए अविगतीपडिबद्धे विउसवितपाहुडे (२०३) इत्यादि श्रीस्थानाङ्गे, एतडीका यथा 'तओ' इत्यादि सुगमं, नवरं न वाचनीयाः- सूत्रं न पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः सूत्रार्थदातुर्वन्दनादि विनयरहितः, तद्वाचने हि दोषाः, यत उक्तं- "इहरहवि ताव थन्भइ अविणीओ लंभिओ किमु सुएणं ? | माणड्डो नासिहिई खएव खारोवसेगाओ || १ || गोजूहस्स पडागा सयं पलायस्स वडइ अ वेगं । दोसोदए व समणं न होइ न निआणतुल्लं च ॥ २॥ निदानतुल्यमेव भवतीत्यर्थः, विणयाहीआ विजा देइ फलं इह परे अ लोगंमि । न फलं अविणय गहीआ सस्साणि व तो अहीणाई || ३ ||” ति, तथा विकृतिप्रतिबद्धो-घृतादिरस विशेषगृद्धोऽनुपधानकारीतिभावः, इहापि दोष एव, यदाह - "अतवो न होइ जोगो नय फलए इच्छिअं फलं विखा । अवि फलति विउलमगुणं साहणहीणा जहा विज || १ || "त्ति, अव्यवसितं - अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यसितप्राभृतः, उक्तं च- "अप्पेऽविय परमाणि अवराहे वयह खामिअं तं च । बहुसो उदीरयंतो अविउसिअपाहुडो स खलु ॥ १ ॥ ति परमाणि-परमक्रोधसमुद्घातं व्रजतीतिभावः, एतस्य वाचने इहलोकतस्त्यागः, अस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वादूपरक्षिप्तबीजवदिति, आह - "दुविहो उ परिचाओ इह चोअण कलह देवयाछलणं । परलोगंमि अ अफलं खित्तंपि व ऊसरे बीअं ॥ १||” ति, एतद्विपर्ययसूत्रं सुगमं" एवं परीक्षापूर्वक वाचनादि केवल पुस्तकादसंभव्येव, कुतः सिद्धान्तगन्धोऽपि १, अयं भावः - यदि पुस्तकात्तीर्थप्रवृत्तिस्तर्हि वृक्षादपि तीर्थप्रवृत्तिर्भवतीति केन निरोद्धुं शक्या ?, उभयत्रापि युक्तेस्तौल्यात्, परिकखासुति बहुवचनं परीक्षाबाहुल्यसूचकमितिगाथार्थः ॥१३७॥ अथ पुस्तकमात्रात्तीर्थप्रवर्त्तनेऽतिप्रसङ्गेन दूषयितुमाह
For Personal and Private Use Only
पुस्तकतीर्थाभावः
॥१३७॥
www.jainelibrary.org