________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥१३६॥
SHONG OTHOSH
व्याधितो रोगीत्यर्थः, तथा क्लीव:- असमर्थः, स च चतुर्द्धा दृष्टिक्लीवशब्दक्लीवदिग्धक्लीवनिमन्त्रणक्कीब भेदात्, तत्र यस्यानुरा गतो विवस्त्रावस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीयः यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो यस्तु विपक्षेणावगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमंत्रितक्लिबचेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तस्थात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्ण इति न कल्पन्ते प्रत्राजयितुं, प्रत्राजकस्याप्याज्ञाभङ्गेन दोपप्रसङ्गादिति, उक्तं च- "जिणवयणे पडिकुरूं जो पव्वावेइ लोभदोसेण । चरणडिओ तवस्सी लोवेइ तमेव उ चरितं ||१||" ति, इह त्रयोऽप्रात्राज्या उक्ताः, त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह - "बाले बुड्ढे नपुंसे अ, जड्डे की वे अ वाहिए। तेणे रायावगारी अ, उम्मत्ते अ अदंसणे || १ || दासे दुढे अ मूढे अ, अणत्ते जुंगिए इअ । ओबद्धए अ भयए, सेहे निप्फेडिया इअ ॥२॥ गुव्विणी बालवच्छा य, पव्वावेउं न कप्पड़ "त्ति, अदंसण:- अन्धः अणर्त:| ऋणपीडितः जुंगिओ-जात्यंगहीनः ओबद्धओ- विद्यादायकादिप्रतिजागरकः सेहनिप्फेडिओ - अपहृत इत्येवमित्यादि, यथैते प्रत्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन पत्राजिता अपि सन्तो मुण्डयितुं - शिरोलोचेन न कल्पन्ते, उक्तं च- "पव्वाविओ सिअ त्ति' स्यादित्यर्थः मुंडावेउं अणायरणजोगो | अहवा मुंडावेंते दोसा अणिवारिआ पुरिम ॥ १॥"ति, एवं शिक्षयितुं - प्रत्युपेक्षगादिसामाचारीं ग्राहयितुं, तथोपस्थापयितुं - महाव्रतेषु व्यवस्थापयितुं, तथा संभोक्तुमुपध्यादिना, एवमनाभोगात् संयुक्ताच संवासयितुम् - आत्मसमीपे आसयितुं न कल्पन्ते इति च ॥ कथञ्चित्संवासिता अपि वाचनाया अयोग्या न वाचनीया इति तानाह" इति श्रीस्थानाङ्गवृत्तौ एवं परीक्षापूर्वकप्रव्रज्यादानादि पुस्तकात्कथं संभवीति विचार्य, तथा वाचनायोग्योऽयं नवेति परीक्षापूर्वकं वाचना
Jain Educationa International
For Personal and Private Use Only
ONIOCOIGIONGOIGIONS
पुस्तकतीर्थाभावः
॥१३६॥
www.jainelibrary.org