________________
तीर्थाभाव:
भीप्रवचनपरीक्षा ८विश्रामे ॥१३४॥
DOHOROSCORONO.का
स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साच्या प्रवर्तिनी तृतीयोदेष्टव्या, यथाऽऽसन्न चोपस्थाप्यमाना | रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा खगच्छसंततिसमायातमाचरन्तीत्येवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनमनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझपादिकुलाकुल विषमसंसृतिसरितारणसमर्थममलदयैकरसममकृदभ्यसितव्यं मुमुक्षुणेति श्रीआचाराने शस्त्रपरिज्ञाध्ययनटीकाप्रान्ते, अत्र गुरुमन्तरेण दीक्षा न संभवति, दीक्षामन्तरेण च | | सिद्धान्ताध्ययनमपि न संभवतीति दर्शितं, तेन पुस्तकदृष्टसिद्धान्तात्प्रव्रज्याग्रहणं मरुमरीचिकायां जलविकल्पकल्पमिति चोध्यं । तथा 'करेमि भंते ! सामाइअं' इत्यादि सामायिकचारित्रोच्चारोऽपि विद्यमानगुरुसन्निधौ संभवति, अन्यथा हे भदन्त ! इत्यामत्रणपदासंभवात् , न चाक्षादेः पुरतः क्रियाकरणे व्यभिचार इति शङ्कनीयं, साक्षाद्गुरुसभिधावभ्यस्तक्रियाया एव गुरुविरहे स्थापनाचार्यस्य पुरतः क्रियमाणत्वात् , न पुनरनभ्यस्ताया अपि, साऽपि क्रिया प्रतिक्रमणप्रतिलेखनादिका प्रतिदिवसनियतानुष्ठानरूपा योध्या, न पुनर्गुरुनियतोपस्थापनादिरूपापि, किंच-पुस्तकदृष्टसिद्धान्तमात्राद्यदि चारित्राद्यनुष्ठानाभ्यासो भवेत्चर्हि "आणाणिद्देसकरे, गुरुणमुक्वायकारए। इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥१॥"(उत्त. २) इत्यादि विनयाध्ययनादिनिरूपणं वैयर्थ्यमापद्येत, नहि पुस्तकस्य तथा विनयः संभवति, तथा "आयरिअउवज्झायाणं, सुस्वसावयणंकरा । तेसिं सिक्खा पवईंति जलसित्ता इव पायवा ||"(उत्त० ५३१) इत्यादौ गुरुकुलबास एव ज्ञानादिसंपद्धतुर्दर्शितो, न पुनस्तद्वत् क्वापि पुस्तकदर्शनाद्यपोति । तथा 'चायण'ति वाचना-सिद्धान्ताध्यापना गुर्वायत्तैव, तथाहि-"संहिआ य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी अ, छविहं विद्धि लक्षणं ।।।"ति (२-१३५*) श्रीअनुयोगद्वारसूत्रे इत्यत्र चालनादिकं गुरुणैव साई संभवति, तथा "विणओणएहिं पंजलिउडेहिं
MORROHOTOROSHOTOSHOOTION:
॥१३४॥
son Educationa international
For Person and Private Use Only