________________
पुस्तक
श्रीप्रवचन-1
परीक्षा ८ विश्रामे ॥१३३॥
यदि पुस्तकात-पुस्तकागमात्तीर्थ-साधुसाध्वीश्रावकश्राविकासमुदायलक्षणं प्रवर्तते, वर्तमानापीत्यादि विभक्तिः सप्तम्यर्थेत्र ग्राह्या, प्रवर्तेत तर्हि कुसुममिव वृक्षाद् ,अपि गम्यो, वृक्षादपि किं न प्रवर्तेत ?,यथा वृक्षात्कुसुममुत्पद्यते तथा तीर्थमप्युत्पद्यतां, तत्र तीर्थाभाव: द्वावपि समो-तुल्यौ, कासु?-दीक्षावाचनापरीक्षासु, यद्वा दीक्षावचनयोः परीक्षास्तासु, अयं भावः-यथा वृक्षो दीक्षायाः दायको न भवति तथा पुस्तकमपि, यथा वृक्षो वाचनाया दायको न भवति तथा पुस्तकमपि, यथा वृक्षः परीक्षाकारको न भवति तथा पुस्तकमपीति दीक्षावाचनापरीक्षासु पुस्तकवृक्षौ समावेव, ननु पुस्तकासरेभ्यो दीक्षाग्रहणविधिमवाप्य स्वयमेव दीक्षा गृह्यते, न च तथा वृक्षादिति कुतः साम्यमिति चेन्मैव, पुस्तकमात्रादीक्षाग्रहण विधेः कर्तुमशक्यत्वात् , तथाहि-कः पुनरुपस्थापनाविधिरित्यत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेपु द्रव्यक्षेत्रभावेषु भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थित सूरिः सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्साउँकैकं महाव्रतमादित आरभ्य त्रिरुचायन् यावन्निशिभुक्तिविरतिरविकला | त्रिरुचारिता, पश्चादिदं त्रिरुचरितव्यं "इच्चेआई पंच महव्वयाई राइभोअणवेरमणछठाई अत्तहिअठ्याए उवसंपजित्ताणं विरहामि" पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्तेऽवनताङ्गयष्टिः-संदिशत किं भणामीति भणति, सूरिः प्रत्याह-वन्दित्वाऽभिधत्स्वेत्येवमुक्तोऽभिवन्द्योत्थितो भणति-युष्माभिर्मम महाव्रतान्यारोपितानीच्छाम्यनुशिष्टिमिति, आचार्योऽपि प्रणिगदति-निस्तारगपारगो भवाचार्य-10 गुणैर्वर्द्धस्व, वचनविरतिसमनन्तरं च सुरभिवासपूर्णमुष्टिं च शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्तयन् , पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम् , एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः, साधवश्चास्य मुनि युगपद् वासमुष्टिं मुञ्चति सुरभिपरिमला यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः सूरिरभिदधाति-गणस्तव कौटिकः
Jain Education literation
For Personal and Private Use Only
www.jainelibrary.org