SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३२॥ SOID SONGIDIOHIDIGOING ONG स्वमत्या - निजमतिकल्पनया स्वमतस्थितिहेतुबुद्ध्येत्यर्थः, इतिगाथार्थः ॥ १३४॥ अथ सोऽपि कीदृश इत्याह सो अ अदत्तो पुत्था लद्धो मुद्धाण नामसिद्धंतो । तेणं तित्थुद्धारो धिद्धी अण्णाणविण्णाणं ॥ १३५ ॥ स च-प्रागुक्तखरूपोऽप्यदत्तः - न केनापि गुरुणा दत्तः, पुस्तकाल्लब्धः, अत एव मुग्धानां मूर्खाणां लुम्पकमतवासितानां नामसिद्धान्तो- नाममात्रेण सिद्धान्तो, न पारमार्थिकः, तेन - सिद्धान्तेन तीर्थोद्धारः, लुम्पका वदन्ति-असाभिः पुस्तकात्सिद्धान्तं लब्ध्वा तीर्थोद्धारो - व्युच्छिन्नमपि तीर्थमुद्धृतमिति, घिग् घिग्-इति भृशं खेदसूचऋतिरस्कारवचनमज्ञानविज्ञानम् - अभिनिवेशमिथ्यात्वदूषितमतिविज्ञानम् - अहो जैनतीर्थमेतादृशं सुलभं यत्केवलिनाऽपि प्रादुष्कर्तुमशक्यमपि लुम्पकेन पुस्तकमात्रा दुद्धृतम्, एवमन्येऽपि पुस्तकवादिनो बोध्या इतिगाथार्थः || १.३५ || अथ प्रागुक्तं लुम्पकसिद्धान्तं दूषयितुमाह संपइ परंपरागमना मेणं तित्थनाहसिद्धंतो । नवि पुत्थयसिद्धंतो कत्थवि सुणिओऽवि केणावि ।। १३६ ।। संप्रति वर्त्तमानकाले श्रीप्रभवस्वामिन आरभ्य दुष्प्रसहस्ररिं यावत् परम्परागमनाम्ना तीर्थनाथ सिद्धान्तो - जिनेन्द्र भाषितार्थमूलकः सिद्धान्तो वर्त्तते, नापि पुस्तक सिद्धान्तोऽपि केनापि श्रुतोऽपि, अयं भावः - " अहवा तिविहे आगमे पं० तं०- अत्तागमे अनंतरागमे परंपरागमे "त्ति श्री अनुयोगद्वारसूत्रं तत्रात्मागमानन्तरागमौ जम्बूस्वाम्यन्तौ, परम्परागमस्तु तीर्थं यावद्वर्त्तते, परं पुस्तकागमस्तु काप्यागमे केनापि श्रुतोऽपि नास्ति, अन्यथा आगमचतुर्द्धा वक्तव्यो भवेत् स च नोक्त इति गाथार्थः ॥ १३६ ॥ अथ पुस्तकागमातीर्थप्रवर्त्तनेऽतिप्रसङ्गमाह जइ पुत्थयाउ तित्थं पवहए किं न कुसुममिव रूक्खा । दोवि समा सीसाणं दिखावायणपरिकखासु ॥ १.३७|| For Personal and Private Use Only Jain Educationa International SIONGO/2 GKONGIORGIA पुस्तकतीर्थाभावः ॥१३२॥ः www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy