SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ।। १२५ ।। Jain Educationa SOSHO: CHIDIO:0 प्रवररथः - प्रधानस्यन्दनः तत्र वर्त्तते, द्रव्यस्तवभावस्तवौ विवेचयति - द्रव्यस्तवः खलुरवधारणे श्रावकधर्मः, चः पुनरर्थे, भावो-भावस्तवो मुनिधर्मः - साधुधर्म इतिगाथार्थः ॥ ११७|| अथ किं नामोत्कृष्टो द्रव्यस्तवो भावस्तवश्चेति व्यक्तीकरोति दcarओ उक्कोसो जहसति जिणहराइ निम्मवणं । भावथओ उक्कोसो चारित्तं चैव अहवायं ॥ ११८ ॥ यथाशक्ति - शक्त्यनतिक्रमेण जिनगृहादिनिम्मपणमुत्कृष्टो द्रव्यस्तवो भवति, यस्य सुवर्णप्रासाद रत्नप्रतिमा निर्मापणाशक्तिः स तथैव कुर्वाणो द्रव्यस्तवे उत्कृष्टो भण्यते, एवं यस्य यथा शक्तिस्तथैव प्रवर्त्तमानोऽवगन्तव्यः यथाख्यातमेव चारित्रमुत्कृष्टो भावस्तवः, यद्यपि तीर्थप्रवृत्तिहेतू सामायिकच्छेदोपस्थापनीये भवतस्तथापि तयोरप्याराधनं तदर्थमेवेतिकृत्वा न दोष इतिगाथार्थः॥ ११८ ॥ अथैवं सिद्धे लुम्पकाज्ञानमाह तत्थेगयरच्चाओ सीकारो वावि केण णाणेणं ? । तत्थवि सिद्धंताओ बलवंतीएऽवि पडिमाए ॥ १.१९ ॥ तत्र - द्रव्यस्तव भावस्तवरूपचक्रद्वयसंयुक्ते धर्मरथे एकतरस्य त्यागः स्वीकारो वा केन ज्ञानेन १, द्वयोर्मध्ये द्रव्यस्तवं परित्यज्य भावस्तवाङ्गीकारे किं ज्ञानं १, न किमपि, किंत्वज्ञानमेव लुम्पकमते, एकेन चक्रेण रथो न निर्वहते तथा द्रव्यस्तवमन्तरेण भावस्तवेन तीर्थं परम्परायातसामायिकाद्यनुष्ठानं, भावस्तवे विद्यमानादपि सिद्धान्ताद् बलवत्या अपि प्रतिमायास्त्यागो महामोहो, महामिध्यात्वमोहनीयोदय इत्यर्थः, यच्च सिद्धान्तादपि प्रतिमायाः बलवन्त्रं तच्च 'सिद्धंताओ पडिमा ' इत्यादिगाथाव्याख्यायां समर्थितमिति, न च भावस्तवे विद्यमानत्वात्सिद्धान्तस्य बलवत्त्वं भविष्यतीति शङ्कनीयं, भावस्तवे विद्यमानानां सर्वेषामपि तथात्वाभावात्, अत एव कायोत्सर्गलक्षणे धर्मकृत्ये “वंदणवत्तिआए पूअणवत्तिआए" चि सूत्रेण साधुभिरपि तत्फलप्रार्थना विधीयते, किंच- आपे For Personal and Private Use Only NGOHOL द्रव्यभावस्तवौ ॥१२५॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy