________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१२६॥
श्रावका पाक्षिकहीनता
SACROOHORIGROOPOROIOHOMok
क्षिकमाधिक्यमपि युक्तमेवेत्यपि प्राग् प्रदर्शितमितिगाथार्थः ॥११९॥ अथ गाथाद्वयेन पराशङ्कामाह
णणु जिणआणादेसो दब्वथओ सब्वहाय भावथओ। ता देसाणाखंडणरूवो दब्वत्थओ जाओ ॥१२०॥ एवं कुवखिआणं पक्खोऽविअ देसखंडणारूवो। तत्थवि एगो मग्गो तन्नोत्ति निमित्तमिह भणह १, १२१॥
ननु जिनाज्ञादेशो द्रव्यस्तवः, चः पुनरर्थे, सर्वथा जिनाज्ञारूपो भावस्तवः, एवं सिद्धे देशाज्ञाखण्डनरूपो द्रव्यस्तवो जातः, | एवं च सति कुपाक्षिकाणां पक्षोऽपि देशखण्डनारूपो-जिनाज्ञादेशखण्डनात्मकः, यतः कुपाक्षिकैरपि सर्वथा जैनप्रवचनं नाभ्युप| गम्यते इति वक्तुं न शक्यते, किंतु कचिद्देशे विप्रतिपत्तौ तदेकदेशः, सोऽपि प्रायः संशयारूढः, तत्रापि श्रावकमार्गे जिनाज्ञाऽल्पीयसी, | कुपाक्षिकाणां तु भूयोऽङ्गीकारस्तत्राप्येकः श्रावकधमों जिनाज्ञारूपो मार्गो मोक्षमार्गः, नान्यः कुपाक्षिकाभ्युपगतधर्मो मोक्षमार्ग इति इह इति-अत्र निमित्तं-कारणं भणत, अमुकहेतुना श्रावकधर्मो मार्गोऽमुकहेतुना च कुपाक्षिकमार्गो नेति व्यक्त्या कारणं कथयतेति पराशङ्कात्मकगाथायुग्मार्थः ॥१२०-१२१।। अथ पराशङ्कामपाकर्तुमाहजीवो अणाइआसवपहवडिओ दुब्बलो अकम्मवसा । पडिवजिअ जिणआणं सणिअंसणिअंतमोसरई ॥१२२॥ | जीवोऽनाद्याश्रवपथपतितः-अनादिकालान्मिथ्यात्वाविरतिकपाययोगाश्रवमार्ग एव पतितोऽनवरतं वर्तते, दुर्बलश्च कर्मवशात्| कर्मपारतन्त्र्यात् , सहसा त्यक्तुमसमर्थः, अर्थादाश्रवान् , यदागमः-"बीअकसायाणुदये अप्पञ्चक्खाणनामधिजाणं । सम्मइंसणलंभं विरयाविरई न हु लहंती॥२॥"त्यादि (आव०१४२) तस्मात् , स कीदृशो ?-जिनाज्ञां प्रतिपद्य-जिनोक्तो मार्गः सम्यगिति जिनोक्त-10 वचनमास्थाय शनैः शनैः-ततः ततः आश्रवात् अपसरति, जिनाज्ञामङ्गीकृत्य जिनोत्तोपायेन शनैः शनैस्तानाश्रवान् निरुणद्धि,
HOUGHOOHOLOROSHOOHORORosa
॥१२६॥
For Pesand Private Use Only