SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१२॥ आशेषाः-स्थापनाप्रमुखाः नामस्थापनाद्रव्यरूपा अर्हन्तः शेषावयवकल्पाः इति गम्यं, निजनिजक्रियासु सापेक्षा इत्यक्षरार्थः, भावा- | निपचतुर्थस्त्वयं-नामस्थापनाद्रव्यभावश्चतुर्भिरपि निक्षेपैः सामान्यत एक एवार्हन् कल्प्यते, तत्र भावार्हन् उत्तमाङ्गकल्पः, शेषास्त्रयोऽपि alकसापेक्षता | तदवयवकल्पाः, परस्परमनुगताः खस्वकार्येषु सापेक्षाः, अपेक्षा चैवं-सामान्यतोऽर्हन् विशेषत ऋषभोजित इत्यादिनामभिर्विना | भावार्हतोऽपि सम्यग्ज्ञानध्यानादेरसंभवः, स्थापना विना च भावाहतोऽप्याकृत्यादिदर्शनासंभवः, आकृत्यादिदर्शनाभावे च ध्यानावलम्बनाभावः सर्वकालमर्हद्विषयकपूजादिविधेरसंभवश्च स्यात् , द्रव्यमन्तरेण भावार्हतोऽप्यसंभवः, 'द्रव्यं हि भावकारण'मितिवचनाद्, एवं नामस्थापने अपि भावार्हन्तं विना कस्य क्रियेते ?, स्थापनायामप्यमिधानं भावार्हत्संबन्ध्येवेति नामस्थापनयोरपि भावाहतोऽपेक्षा, द्रव्याहवमपि भावार्हदपेक्षयैव वक्तुं शक्यते, यदि मरीचिजीवोऽपि भावी भावार्हन्नाभविष्यत्तर्हि द्रव्याहबुद्ध्या भरतचक्रवती 'जं होहिसि तित्थयरो अपच्छिमो तेण वंदामी'त्यादि(आव० ४२८)वचोमिः-स्वाभिप्रेतं भक्तिवन्दनं कथं प्राकटिष्यत् १, कथं वाऽष्टापदे तत्प्रतिमामप्यकारयिष्यत् , कारितवांश्च तत्मतिमां, यदागमः-"थूभसय भाउआणं चउचीसं चेव जिणहरे कासी। सव्वजिणाणं पडिमा वण्णपमाणेहि निअएहि।।१॥" श्रीआव. नि. भाष्ये (४५) किंच-आस्तामन्यत्र, भावार्हन्नपि समवसरणे चतूरूपः सन् धर्मदेशनां कुर्वाणो निजप्रतिरूपकसापेक्ष एव, तत्र त्रीणि प्रतिरूपकाणि, तानि तु देवकृतान्येव, यदागमः-"जे ते देवेहि कया तिदिसि पडिरूवगा जिणवरस्स । तेसिपि तप्पभावा तयाणुरूत्रं हवइ रुवं ॥१॥ इति श्रीआ०नि० (५५७) तानि च प्रतिरूपकाणि तथा वस्तुस्खाभाब्यात् खल्पकालस्थितिकान्यपि जिनबिम्बान्येव, तदभावे च समवसरणरचनाया एवासंभवात् , तथात्वे च | तीर्थकृन्नाथकर्मजन्यपूजास्वादासंभवात् ,तदभावे च तीर्थकृत्कर्मणो भोगाभावेन मुक्त्यनवाप्तेः,किंच-प्राचीनदिग्व्यतिरिक्तासु तिसृषु ॥१२३॥ ORDGHORROO GHORRO Jan Education Interior For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy