________________
सूत्राथों
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१२२॥
सापेक्षौ
डित्थडवित्थादिवत् प्रवृत्तिनिवृत्तिहेतव इति वाच्यवाचकभावस्वरूपसंबन्धसापेक्षा अर्थाः शब्दाच, तत्र जिनभणिताः-तीर्थकरभाषाविषयीभूता अर्था वाच्याः, गद्यपद्यादिवन्धात्मकमङ्गोपाङ्गप्रकरणप्रमुखं वाचकं, तेषां शब्दात्मकत्वात् , तीर्थकरसकाशात्तीर्थकरभाषया वाच्यानर्थान् साक्षादुपलभ्य गणधरैः शिष्यप्रशिष्यादिभिस्तु परम्परयोपलभ्य चाङ्गोपाङ्गप्रकरणादीनि तदर्थवाचकानि रचितानि, गणधरादिविचित्रकर्मक्षयोपशमपुण्यप्रकृत्यादिजन्यानां शब्दानां वैचित्र्येऽपि वाच्यानामर्थानामैक्यावस्तुगत्या सर्वेषामपि शास्त्रा| णामभेद एवावगन्तव्यः, प्रवृत्तिनिवृश्यादिजन्यत्वे विशेषणाभावाद् ,यथा देशजात्यादिविशेषवशात् कथंचिद्भापाभेदसंभवेऽपि मणिमौति कादीनां वाच्यानामर्थानामभेदेनैव प्रवृत्तिनिवृत्त्यादिव्यवहारादिषु साम्यमेवास्ति, एवं च सति यः कश्चिद्गणधरकृताङ्गोपाङ्गा| द्युक्तमेव प्रमाणं, न पुनः प्रकरणायुक्तमपीति ब्रुवाणोऽमुकदेशीयोऽमुकजातीयो वा निजभाषापुरस्सरं स्वर्णादिवस्तु दास्यति तदा ग्रहीष्यामि वर्णादिव्यवहारं च स्वीकरिष्यामि, न पुनर्भापान्तरेणोच्यमानं स्वर्णमपि श्रद्धास्थामीत्यादिकं वदन्निव देवानांप्रियोऽव-IA गन्तव्यः, यतः प्रवृत्तिनिवृत्तिव्यवहारस्तु स्तम्भकुम्भाम्भोरुहादिवाच्यापेक्षया न पुनर्वाचकापेक्षयाऽपीति जगत्संस्थितेः, एकस्यापि |वाच्यस्य देशकालादिभेदेन सर्वेऽपि शब्दा वाचकतया बभूवांसः, यथा म्लेच्छ जातिविशेषेण तिलाशब्देन सुवर्ण भण्यते देशविशेषे
च धान्यविशेष इति, न पुनर्वाच्यानामपि परस्परं परावृत्तिः, नहि कदाचिदपि जलकृत्यं घृतेन साध्यते इत्यादि स्वयमेवालोच्य| मितिगाथार्थः ॥११३।। अथ पुनरपि प्रसङ्गतः प्रकृतं दृषयितुं दान्तिकमाहal एवं अरिहनरस्सवि भावजिणो उत्तमंगमवसेसं । ठवणप्पमुह जिणिंदा निअनिअकिरिआसु साविकखा।।११४॥
एवं-प्रागुक्तप्रकारेणार्हन्नरस्थापि-नामादिचतुर्विधस्यापि जिनेन्द्रस्य विवक्षया समुदायेन नरस्य भावजिनो हि उत्तमाङ्गकल्पः,
OOOOOOOOOHOR
in Education tembon
For Personal and Private Use Only
www.neborg