SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा विश्रामे ॥११९॥ प्रतिमाया बलवत्ता PROHOOHOROHOROACROROSHORORCE जानामुपकृतिहेतवोन तथा मण्यादीनां मनुजा अपीत्यादिरूपेणोपकार्योपकारकभावमधिकृत्योपकार्यापेक्षयोपकारकं बलवदिति तीर्थादपि प्रतिमा बलवतीति सिद्धम् , एवं प्रतिमापूजने किंचित्कलमस्ति उत नेति, फलमपि शुभमशुभं वा? तदपि महदल्पं वेत्यादि संशये सति 'हिआए सुहाए खमाए निस्सेसाए आणुगामिअत्ताए भविस्सती'त्यादिराजप्रश्नाद्यादिप्रवचनेन तत्संशयोच्छेदो भवति, तथा च तथाविधसंशयोच्छेदमधिकृत्य प्रतिमातोपि सिद्धान्तो बलवान् ,यथा साधूनां मनोऽश्वदमने रज्जुकल्पः सिद्धान्तः, यदुक्तं| "पहावंतं निगिण्हामि, सुअरस्सीसमाहि। न मे गच्छइ उम्मग्गं, मग्गं च पडिवाइ॥१ति" श्रीउत्त० (८८७*)इत्यादिरूपेणा|पेक्षया किंचित्कथञ्चिदलवत् , तेन कारणेन जिनवचनमनेकान्तं, स्याद्वादात्मकमित्यर्थः, अत एव घटोऽस्त्येवेत्यादिदुर्नयवादिनो मिथ्यादृशः, जैनप्रवचने च स्याद् घटोऽस्त्येवेति प्रमाणवाक्यमनेकान्तात्मकम् , अपेक्षयाऽन्यथापि स्थादितिगाथार्थः ॥१०८॥ Hiअथानेकान्तस्वरूपमाह सव्वं खलु साविकवं साविक्खा पडिपयत्थमवि भिण्णा । भिण्णत्तंऽपेगस्सवि अवरावरवत्थुसंकप्पा ॥१०९।। न सर्व जगदर्ति यावद्वस्तुजातं खलुरवधारणे सापेक्षमेव, विवक्षितं वस्तु किंचिदपेक्षया कार्यकारि किंचिदपेक्षया च नेतिरूपेण सहापेक्षया वर्त्तते तत्सापेक्षं, सा चेत्यध्याहार्य, सा चापेक्षा प्रतिपदार्थमपि भिन्ना, भिन्नत्वमप्येकैकस्यापि वस्तुनः अपरापरवस्तुसंकल्पाद् भवतीतिगाथार्थः ॥१०९।। अथापेक्षायामुदाहरणमाहनिवपुत्तोऽविअ मित्तं कस्सवि णो तेण रजवइ हुज्जा । गुज्झपवित्तिप्पमुहं मित्तत्ताओ न निवपुत्ता ॥११०॥ नृपपुत्रोऽपि च कस्यापि मित्रं न तेन कारणेन राज्यपतिर्भवेत् , राज्यपतित्वहेतुर्मित्रत्वं न भवति, किंतु नृपपुत्रमेव, गुह्य ॥११९॥ -- Jan Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy